शाक्वेयं पर्वतश्रेष्ठं समावसति सुन्दरि
कालो ऽत्यगाद् वरारोहे बहुवर्षगणो वने
प्रतिगृह्य समभ्यागात् ख्यातां देववतीमिति
ददर्श वानरश्रेष्ठः प्रजग्राह बालत् करे
कन्दरो वीक्ष्य संक्रुद्धः ख्ड्गमुद्यम्य चाद्रवत्
तथैव सह चार्वङ्ग्या हिमाचलमुपागतः
तस्याविदूरे गहनमाश्रमं ऋषिवर्जितम्
न्यमञ्जत स कालिन्द्यां पश्यतो दानवस्य हि
जगाम च महातेजाः पातालं निलयं निजम्
नीतः शिवीति विख्याते देशं शुभजनावृतम्
गन्तुकामो महातेजा यत्र न्यस्ता सुलोचना
नन्दयन्त्या समं पुत्र्या गत्वा जिगमिषुः कपिः
तन्मे वृथा श्रमो जातो जलमज्जनसंभवः
सा तद् भयाच्च न्यपतन्नदीं चैव हिरण्वतीम्
दुःखशोकसमाक्रान्तो जगामाञ्जनपर्वतम्
समास्ते वै महातेजाः संवत्सरगणान् बहून्
नीता देशं महापुण्यं कोशलं साधुभुर्युतम्
प्ररोहप्रावृततनुं जटाधरमिवेश्वरम्
उपविष्टा शिलवापट्टे ततो वाचं प्रशुश्रवे
यथा स तनयस्तुभ्यमुद्बद्धो वटपादपे
तिर्यगूर्ध्वमधश्चैव समन्तादवलोकयत्
पिङ्गलाभिर्जटाभिस्तु उद्ब्द्धं यत्नतः शुभे
प्राह केनासि बद्धस्त्वं पापिना वद बालक
जटास्वेवं सुदुष्टेन जीवामि तपसो बलात्
तत्रास्ति तपसो राशिः पिता मम ऋतध्वजः
जातो ऽलिवृन्दसंयुक्तः सर्वशास्त्रविशारदः
जाबालीति परिख्याय तच्छृणुष्व शुभानने
दशवर्षसहस्राणि सुमारत्वे चरिष्यसि
पञ्चवर्षशतान् बालो भोक्ष्यसे बन्धनं दृढम्
यौवने पारमान् भोगान् द्विसहस्रसमास्तथा