आगमिष्यति दैत्यस्य पुत्री कन्दरमालिनः
तथापरा वेदवती पर्जन्यदुहिता शुभा
हाटकाख्ये महादेव तदा संयोगमेष्यसि
सप्तगोदावरं तीर्थमगमत् त्वरिता ततः
समध्यास्ते शुचिपरा फलमूलाशनाभवत्
श्लोकमेकं महाख्यानं तस्याश्च प्रियकाम्यया
इदं हि दुःखं मृगशावनेत्र्या निर्मार्जयेद् यः स्वपराक्रमेण
नदीं पयोष्णीं मुनिवृन्दवन्द्यां संचिन्तयन्नेव विशालनेत्राम्
स्मरन्त्याः सुरथं वीरं महान् कालः समभ्यगात्
न्यपतन्मेरुशिखराद् भूपृष्ठं विधिचोदितः
शाक्वेयं पर्वतश्रेष्ठं समावसति सुन्दरि
कालो ऽत्यगाद् वरारोहे बहुवर्षगणो वने
प्रतिगृह्य समभ्यागात् ख्यातां देववतीमिति
ददर्श वानरश्रेष्ठः प्रजग्राह बालत् करे
कन्दरो वीक्ष्य संक्रुद्धः ख्ड्गमुद्यम्य चाद्रवत्
तथैव सह चार्वङ्ग्या हिमाचलमुपागतः
तस्याविदूरे गहनमाश्रमं ऋषिवर्जितम्
न्यमञ्जत स कालिन्द्यां पश्यतो दानवस्य हि
जगाम च महातेजाः पातालं निलयं निजम्
नीतः शिवीति विख्याते देशं शुभजनावृतम्
गन्तुकामो महातेजा यत्र न्यस्ता सुलोचना
नन्दयन्त्या समं पुत्र्या गत्वा जिगमिषुः कपिः
तन्मे वृथा श्रमो जातो जलमज्जनसंभवः
सा तद् भयाच्च न्यपतन्नदीं चैव हिरण्वतीम्
दुःखशोकसमाक्रान्तो जगामाञ्जनपर्वतम्
समास्ते वै महातेजाः संवत्सरगणान् बहून्
नीता देशं महापुण्यं कोशलं साधुभुर्युतम्
प्ररोहप्रावृततनुं जटाधरमिवेश्वरम्
उपविष्टा शिलवापट्टे ततो वाचं प्रशुश्रवे
यथा स तनयस्तुभ्यमुद्बद्धो वटपादपे