अपश्यन्ती नापतिं तथा स्निग्धं सखीजनम्
तां वेगात् काञ्चनाक्षी तु महानद्यां नरेश्वर
तयापि तस्यास्तद्भाव्यं विदित्वाथ विशां पते
एवं तस्याः स्वतन्त्राया एषावस्था श्रुता मया
किमर्थमागतासीह निर्मनुष्यमृगे वने
श्रुत्वार्षिः कोपमगमदशपच्छिल्पिनां वपम्
योजिता नैव पतिना तस्माच्छाखामृगो ऽस्तु सः
उपास्य पश्विमां सन्ध्यां पूजयामास शङ्करम्
उवाचागम्यतां सुभ्रूं सुदतीं पतिलालसाम्
तत्रोपास्य महेशानं महान्तं हाटकेश्वरम्
आगमिष्यति दैत्यस्य पुत्री कन्दरमालिनः
तथापरा वेदवती पर्जन्यदुहिता शुभा
हाटकाख्ये महादेव तदा संयोगमेष्यसि
सप्तगोदावरं तीर्थमगमत् त्वरिता ततः
समध्यास्ते शुचिपरा फलमूलाशनाभवत्
श्लोकमेकं महाख्यानं तस्याश्च प्रियकाम्यया
इदं हि दुःखं मृगशावनेत्र्या निर्मार्जयेद् यः स्वपराक्रमेण
नदीं पयोष्णीं मुनिवृन्दवन्द्यां संचिन्तयन्नेव विशालनेत्राम्
स्मरन्त्याः सुरथं वीरं महान् कालः समभ्यगात्
न्यपतन्मेरुशिखराद् भूपृष्ठं विधिचोदितः
शाक्वेयं पर्वतश्रेष्ठं समावसति सुन्दरि
कालो ऽत्यगाद् वरारोहे बहुवर्षगणो वने
प्रतिगृह्य समभ्यागात् ख्यातां देववतीमिति
ददर्श वानरश्रेष्ठः प्रजग्राह बालत् करे
कन्दरो वीक्ष्य संक्रुद्धः ख्ड्गमुद्यम्य चाद्रवत्
तथैव सह चार्वङ्ग्या हिमाचलमुपागतः
तस्याविदूरे गहनमाश्रमं ऋषिवर्जितम्
न्यमञ्जत स कालिन्द्यां पश्यतो दानवस्य हि
जगाम च महातेजाः पातालं निलयं निजम्
नीतः शिवीति विख्याते देशं शुभजनावृतम्