विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः
तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः
यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च
संचारस्थानमेवास्य धान्यरत्नाकरादिषु
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च
तस्याधिवासभूमित्तु कुषीवलधराश्रयः
वीणावाद्यधृङ् मिथुनं गीतनर्तकशिल्पिषु
मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः
केदारवापीपुलिने विविक्तावनिरेव च
वसते व्याधपल्लीषु गह्वरेषु गुहासु च
चरते स्त्रीरतिस्थाने वसते नड्वलेषु च
नगराध्वानशालासु वसते तत्र नारद
विषगोमयकीटादिपाषाणादिषु संस्थितः
वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु
मकरो ऽसौ नदीचारी वसते च महोदधौ
द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु
वसते पुण्यदेशेषु देवब्राह्नणसद्मसु
न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम्
पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च
दाक्षायाणी तस्य भार्या तस्यामजनयत्सुतान्
योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः
तप्येतां च तपः सौम्यौ पुराणवृषिसत्त्मौ
गृमन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे
तापितं तपसा ब्रह्मन् शक्रः क्षोभं तदा ययौ
रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम्
समं सहचरेणैव वसन्तेनाश्रमं गतः
बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया
निष्पत्राः सततं रेजुः शोमभयन्तो धरातलम्
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने
तमेव हसतेत्युच्चैः वसन्तः कुन्दकुड्मलैः