पूजयामास संहृष्टा भ्रातृभावेन दानव
मां समाह्लादयस्वाद्य स्वपरिष्वङ्गवारिणा
पिता मम महाक्रोधात् त्रिदशानपि निर्दहेत्
भगिनी धर्मतस्ते ऽहं भवाञ्शिष्यः पितुर्मम
कामाग्निर्निर्दहति मामद्यैव तनुमध्यमे
तमेव याचस्व गुरुं स ते दास्यत्यसंशयम्
च्युतावसरकर्तृत्वे विघ्नो जायेत सुन्दरि
दातुं शक्ता स्वमात्मानं स्वतन्त्रा न हि योषितः
गच्छस्व शुक्रशापेन सभृत्यज्ञातिबान्धवः
चित्राङ्गदाया यद् वृत्तं पुरा देवयुगे शुभे
रूपयौवनसंपन्ना पद्महीनेव पद्मिनी
जगाम नेमिषं नाम स्नातुं कमललोचना
तां ददर्श च तन्वङ्गीं शुभाङ्गो मदनातुरः
असौ नराधिपसुतो मदनेन सदर्थ्यते
सख्यस्तामब्रुवन् बाला न प्रगल्भऽसि सुन्दरि
पिता तवास्ति धर्मिष्ठः सर्वशिल्पविशारदः
एतस्मिन्नन्तरे राजा सुरथः सत्यवात् सुधी
त्वं मुग्धे मोहयसि मां दृष्ट्यैव मदिरेक्षणे
तन्मां कुचतले तल्पे अभिशायितुमर्हसि
ततः सा चारुसर्वाङ्गी राज्ञो राजीवलोचना
एवं पुरा तया तैन्व्या परित्रातः स भूपतिः
अरजस्काब्रवीद् दण्डं तस्या यद् वृत्तमुत्तरम्
तदा तया तु तन्वङ्ग्या सुरथस्य महीपतेः
यस्माद् धर्मं परित्यज्य स्त्रीभावान् मन्दचेतसे
विवाहरहिता नैव सुखं लप्स्यसि भर्तृतः
अपकृष्टे नपरपतौ सापि मोहमुपागता
अपकृष्टे नपरपतौ सापि मोहमुपागता
सा सिच्यमाना सुतरां शिशिरेणाप्यथाम्भसा
तां मृतामिति विज्ञाय जग्मुः सख्यस्त्वरान्विताः
सा च तास्वपि सर्वासु गतासु वनमुत्तमम्