परस्त्रीकामवान् मूढः सराष्ट्रो नाशमाप्तवान्
स च वव्रे महातेजाः पौरोहित्याय भार्गवम्
सुक्रस्यासीच्च दुहिता अरजा नाम नामतः
तेनार्चितश्चिरं तत्र तस्थौ भार्गवसत्त्मः
अतिष्ठत सुचार्वङ्गी ततो ऽब्यागान्नराधिपः
गतः स भगवान् शुक्रो याजनाय दनोः सुतम्
तास्तमूचुर्गुरोः पुत्री संतिष्ठत्यरजा नृप
प्रविवेश महाबाहुर्ददर्शारजसं ततः
संजातो ऽन्धक दण्डस्तु कृतान्तबलचोदितः
शुक्रशिष्यानपि बली एकाकी नृप आव्रजत्
पूजयामास संहृष्टा भ्रातृभावेन दानव
मां समाह्लादयस्वाद्य स्वपरिष्वङ्गवारिणा
पिता मम महाक्रोधात् त्रिदशानपि निर्दहेत्
भगिनी धर्मतस्ते ऽहं भवाञ्शिष्यः पितुर्मम
कामाग्निर्निर्दहति मामद्यैव तनुमध्यमे
तमेव याचस्व गुरुं स ते दास्यत्यसंशयम्
च्युतावसरकर्तृत्वे विघ्नो जायेत सुन्दरि
दातुं शक्ता स्वमात्मानं स्वतन्त्रा न हि योषितः
गच्छस्व शुक्रशापेन सभृत्यज्ञातिबान्धवः
चित्राङ्गदाया यद् वृत्तं पुरा देवयुगे शुभे
रूपयौवनसंपन्ना पद्महीनेव पद्मिनी
जगाम नेमिषं नाम स्नातुं कमललोचना
तां ददर्श च तन्वङ्गीं शुभाङ्गो मदनातुरः
असौ नराधिपसुतो मदनेन सदर्थ्यते
सख्यस्तामब्रुवन् बाला न प्रगल्भऽसि सुन्दरि
पिता तवास्ति धर्मिष्ठः सर्वशिल्पविशारदः
एतस्मिन्नन्तरे राजा सुरथः सत्यवात् सुधी
त्वं मुग्धे मोहयसि मां दृष्ट्यैव मदिरेक्षणे
तन्मां कुचतले तल्पे अभिशायितुमर्हसि
ततः सा चारुसर्वाङ्गी राज्ञो राजीवलोचना