अथागान्मन्दरं शंभुर्निजमावसथं शुचिः
शून्ये ऽभ्यगाद् दृष्टमतिर्हि देव्या संयोधितो येन हि कारणेन
शङ्करो मन्दरस्थो ऽपि यच्चाकार तदुच्यताम्
संत्पतविग्रहः सर्वान् दानवानिदमब्रवीत्
यस्तामद्रिसुतां शीघ्नं ममान्ति कमुपानयेत्
मेघगम्भीरनिर्घोषं प्रहलादो वाक्यमब्रवीत्
पिता त्रिनयनो देवः श्रूयतामत्र कारणम्
आराधितो महादेवः पुत्रार्थाय पुरा किल
पुत्रकः पुत्रकामास्य प्रोक्त्वेत्यं वचनं विभो
पिहितं योगसंस्थस्य ततो ऽन्धमभवत्तमः
तदितं गृह्यतां दैत्य तवोपयिकमात्मजम्
त्रैलोक्यजननीं चापि अभीवाञ्छिष्यते ऽधमः
तदास्य स्वयमेवाहं करिष्ये कायशोधनम्
त्वत्पितापि समभ्यागात् त्वामादाय रसातलम्
सर्वस्यापीह जगतो गुरुः शंभुः पिता ध्रुवम्
नेदृशे पापसंकल्पे मतिं कुर्याद् भवद्विधः
अजेयस्तस्य भार्येयं न त्वमर्हे ऽमरार्दन
अजित्वा सगणं रुद्रं स च कामो ऽद्य दुर्लभः
मेरुमुत्पाटयेद् वापि स जयेच्छूलपाणिनम्
न च शक्यो हरो जेतुं सत्यं सत्यं मयोदितम्
परस्त्रीकामवान् मूढः सराष्ट्रो नाशमाप्तवान्
स च वव्रे महातेजाः पौरोहित्याय भार्गवम्
सुक्रस्यासीच्च दुहिता अरजा नाम नामतः
तेनार्चितश्चिरं तत्र तस्थौ भार्गवसत्त्मः
अतिष्ठत सुचार्वङ्गी ततो ऽब्यागान्नराधिपः
गतः स भगवान् शुक्रो याजनाय दनोः सुतम्
तास्तमूचुर्गुरोः पुत्री संतिष्ठत्यरजा नृप
प्रविवेश महाबाहुर्ददर्शारजसं ततः
संजातो ऽन्धक दण्डस्तु कृतान्तबलचोदितः
शुक्रशिष्यानपि बली एकाकी नृप आव्रजत्