सर्वलक्षणसंयुक्तः सर्वायुधधरो ऽव्ययः
समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम्
कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे
प्रोक्त्वा प्रणामं कमलासनाद्याश्चक्रुर्मतिं चैकतरां नियुज्य
प्रगृह्याभ्यद्रवत्तूर्णं कुरुक्षेत्रं स्वमाश्रमम
दृष्ट्वानमः स्थाणवेति प्रोक्त्वा सर्वेह्युपाविशन्
क्षुब्धं जगज्जगन्नाथ उन्मज्जस्व प्रियातिथे
श्रुत्वोत्तस्थौ च वैगेन सर्वव्यापी निरञ्जनः
स चागतः सुरैः सेन्द्रः प्रणतो विनयान्वितैः
महाव्रतं त्रयो लोकाः क्षुब्धास्त्वत्तेसावृताः
ततः सुरा दिवं जग्मुर्हृष्टाः प्रयतमानसाः
ततो ऽभिचिन्तयद्रुद्रः किमर्थं क्षुभिता मही
ददर्शोघवतीतीरे उशनसं तपोनिधिम्
जगत्क्षोभकरं विप्र तच्छीघ्रं कथ्यतां मम
संजीवनीं शुभां विद्यां ज्ञातुमिच्छे त्रिलोचन
तस्मात् संजीवनींविद्यां भवान् ज्ञास्यति तत्तवत्तः
तथापि चलते पृथ्वी साब्धिभूभृन्नगावृता
ददर्श नृत्यमानं च ऋषिं मङ्कणसंज्ञितम्
तस्यैव वेगेन समाहता तु चचाल भूर्भूमिधरैः सहैव
किं भावितो नृत्यसि केन हेतुना वदस्व मामेत्य किमत्र तुष्टिः
बहून् गणान् वै मम तप्यतस्तपः संवत्सरान् कायविशोषणार्थम्
तेनाद्य तुष्टो ऽस्मि भृशं द्विजेन्द्र येनास्मि नृत्यामि सुभावितात्मा
संताडनादेव न च प्रहर्षो ममास्ति नृनं हि भवान् प्रमत्तः
नृत्यं परित्यज्य सुविस्मितो ऽथ ववन्द पादौ विनयावनम्रः
इदं च तीर्थं प्रवरं पृथिव्यां पृथूदकस्यास्तु समं फलेन
सदास्तु धर्मस्य निधानमग्र्यं सारस्वतं पापमलापहारि
मनोहरा चौघवती विशाला च सरस्वती
सोमपालफलं सर्वाः प्रयच्छन्ति सुपुण्यदाः
गमिष्यति महापुण्यं ब्रह्मलोकं सुदुर्गमम्
मूर्त्ति स्थाप्य कुरुक्षेत्रे ब्रह्मलोकमगाद् वशी