तस्मात् कायविशुद्ध्यर्थं देवदृष्ट्यर्थमादरात्
क्षीरस्नाने प्रयुञ्जीत सार्द्ध कुम्भशतं सुराः
पञ्चगव्यस्य शुद्धस्य कुम्भाः षोडश कीर्तिताः
ततो रोचनया देवमष्टोत्तरशतेन हि
बिल्वपत्रैः सकमलैः धत्तूरसुरचन्दनैः
अगुरुं सह कालेयं चन्दनेनापि धूपयेत्
एवं कृते तु देवेशं पश्यध्वं नेतरेण च
यस्मिश्चिर्णे कायशुद्धिर्भवते सार्वकालिकी
त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम्
षट्पलं सर्पिषः प्रोक्तं दिवसे दिवसे पिबेत्
तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः
विमुक्तपापा देवेशं वासुदेवमथाब्रुवन्
यं क्षीराद्यभिषेकेण स्नापयामो विधानतः
मद्देहे किं न पश्यध्वं योगाश्चायं प्रतिष्ठितः
सत्यं वद सुरेशान महेशानः क्व तिष्ठति
दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम्
स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम्
बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा
जप्त्वाष्टशतनामानं प्रणामं चक्रिरे ततः
कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ
सर्वलक्षणसंयुक्तः सर्वायुधधरो ऽव्ययः
समाधवं हारभुजङ्गवक्षसं पीताजिनाच्छन्नकटिप्रदेशम्
कपर्दखट्वाङ्गकपालघण्टासशङ्खटङ्काररवं महर्षे
प्रोक्त्वा प्रणामं कमलासनाद्याश्चक्रुर्मतिं चैकतरां नियुज्य
प्रगृह्याभ्यद्रवत्तूर्णं कुरुक्षेत्रं स्वमाश्रमम
दृष्ट्वानमः स्थाणवेति प्रोक्त्वा सर्वेह्युपाविशन्
क्षुब्धं जगज्जगन्नाथ उन्मज्जस्व प्रियातिथे
श्रुत्वोत्तस्थौ च वैगेन सर्वव्यापी निरञ्जनः
स चागतः सुरैः सेन्द्रः प्रणतो विनयान्वितैः
महाव्रतं त्रयो लोकाः क्षुब्धास्त्वत्तेसावृताः