कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः
चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रसंसन्ति च पद्मनाभम्
अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः
ऊचुर्देवं नमस्कृत्य जगत्संक्षुब्धिकारणम्
स तव्त्स्यति महाज्ञानी जगत्क्षुब्धं चरचरम्
न तत्र देवं न वृषं न देवीं न च नन्दिनम्
तान् मूढदृष्टीन् संप्रोक्ष्य देवान् विष्णुर्महाद्युतिः
तमूचुर्नैव देवेशं पश्यामो गिरिजापतिम्
तानुवाच जगन्मूर्तिर्यूयं देवस्य सागसः
तेन ज्ञानविवेको वै हृतो देवेवन शूलिना
तस्मात् कायविशुद्ध्यर्थं देवदृष्ट्यर्थमादरात्
क्षीरस्नाने प्रयुञ्जीत सार्द्ध कुम्भशतं सुराः
पञ्चगव्यस्य शुद्धस्य कुम्भाः षोडश कीर्तिताः
ततो रोचनया देवमष्टोत्तरशतेन हि
बिल्वपत्रैः सकमलैः धत्तूरसुरचन्दनैः
अगुरुं सह कालेयं चन्दनेनापि धूपयेत्
एवं कृते तु देवेशं पश्यध्वं नेतरेण च
यस्मिश्चिर्णे कायशुद्धिर्भवते सार्वकालिकी
त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम्
षट्पलं सर्पिषः प्रोक्तं दिवसे दिवसे पिबेत्
तप्तकृच्छ्ररहस्यं वै चक्रुः शक्रपुरोगमाः
विमुक्तपापा देवेशं वासुदेवमथाब्रुवन्
यं क्षीराद्यभिषेकेण स्नापयामो विधानतः
मद्देहे किं न पश्यध्वं योगाश्चायं प्रतिष्ठितः
सत्यं वद सुरेशान महेशानः क्व तिष्ठति
दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम्
स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम्
बिल्वपत्राम्बुजैर्देवं पूजयामासुरञ्जसा
जप्त्वाष्टशतनामानं प्रणामं चक्रिरे ततः
कथं योगत्वमापन्नौ सत्त्वान्धतमसोद्भवौ