मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम्
ज्येष्ठमासाश्च तत्पत्रं द्वितीयं परिकीर्तितम्
मासो आषाढनामा च तृतीयं पत्रकं स्मृतम्
मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम्
मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम्
मासश्चाश्वयुजो नाम ष्ष्ठं तत् पत्रकं स्मृतम्
मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृतम्
मासो मार्गशिरो नाम त्वष्टमं पत्रकं स्मृतम्
पौषति गदितो मासो नवमं परिकीर्तितम्
माघो निगदितो मासः पत्रकं दशमं स्मृतम्
पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम्
इदं द्वादशमं प्रोक्तं पत्रं वै केशवस्य हि
त्रिव्यूहमेकमूर्तिश्च तथोक्तः परमेश्वरः
यस्मिन् ज्ञाते मुनिश्रेष्ठ न भूयो मरणं भवेत्
चतुर्बाहुमुदाराङ्गं श्रीवत्सधरमव्ययम्
सहस्रवदनः श्रीमान् प्रजाप्रलयकारकः
द्विभुजो धारयन् मालं सृष्टिकृच्चादिपूरुषः
अतो मरीचिप्रमुखास्तथान्ये ऽपि सहस्रशः
चुतुर्भुजं तं स मुरुर्दुरात्मा कृतान्तवाक्यात् पुनराससाद
स प्राह योद्धुं सह वै त्वयाद्य तं प्राह भूयः सुरशत्रुहन्ता
कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः
चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रसंसन्ति च पद्मनाभम्
अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः
ऊचुर्देवं नमस्कृत्य जगत्संक्षुब्धिकारणम्
स तव्त्स्यति महाज्ञानी जगत्क्षुब्धं चरचरम्
न तत्र देवं न वृषं न देवीं न च नन्दिनम्
तान् मूढदृष्टीन् संप्रोक्ष्य देवान् विष्णुर्महाद्युतिः
तमूचुर्नैव देवेशं पश्यामो गिरिजापतिम्
तानुवाच जगन्मूर्तिर्यूयं देवस्य सागसः
तेन ज्ञानविवेको वै हृतो देवेवन शूलिना