टाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्मजम्
एतैश्च पापैः संयुक्तः प्रीणयेद् यदि शङ्करम्
शारीरं वाचिकं यत् तु मानसं कायिकं तथा
भ्रातृभिर्बान्धवैश्चापि तस्मिन् जन्मनि धर्मज
विपरीते भवेत् साध्य विपरीतः पदक्रमः
सेषात् तारयते शिष्यः सर्वतो ऽपि हि पुत्रकः
त्रिः सत्यं तव पुत्रो ऽहं देव योगं वदस्व मे
दास्येते च ततः सूनुर्दायादो मे ऽसि पुत्रक
येयं हि भवता प्रोक्ता तां मे व्याख्यातुमर्हसि
प्राह प्रहस्य भगवान् क्श्रुणु वत्सेति नारद
गुढोत्पन्नो ऽपविद्धश्च दायादा बान्धवास्तु षट्
गोत्रस्म्यं कुले वृत्तिः प्रतिष्ठ शाश्वती तथा
स्वयेदत्तः पारशवः षडदायादबन्धवाः
नामधारका एवेह न गोत्रकुलसंमताः
उवाचैषां विशेषं मे ब्रह्मन् व्याख्यातुमहसि
औरसो यः स्वयं जातः प्रतिबिम्बमिवात्मनः
भार्या ह्यनातुरा पुत्रं जनयेत् क्षेत्रजस्तु सः
मित्रपुत्रं मित्रदत्तं कृत्रिमं प्राहुरुत्तमाः
बाह्मतः स्वयमानीतः सो ऽपविद्धः प्रकीर्तितः
मूल्यैर्गृहीतः क्रीतः स्याद् द्विविधः स्यात् पुनर्भवः
तज्जालस्तनयो ज्ञेयो लोके पौनर्भवो मुने
स स्वयन्दत्त इत्युस्तथान्यः कारणान्तरैः
ऊढायां वाप्यनूढायां स पारशव उच्यते
स्वमात्मानं गच्छ शीघ्रं पितरौ समुपाह्वय
तावाजग्मतुरीशानं द्रष्टुं वै दम्पती मुने
उपविष्टौ सुखासीनौ साध्यो वचनमब्रवीत्
स चोक्तवान् मां पुत्रार्थे तस्मात् त्वं दातुमर्हसि
उक्तवन्तौ प्रभो ऽयं हि आवयोस्तनयस्तव
इत्युक्त्वा जग्मतुर्सूर्ण येनैवाब्यागतौ यथा
सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम्