भ्रंशनं निजधर्माणां चतुर्थं नरकं स्मृतम्
मिष्टौकाशनमित्युक्तं पञ्चमं तु नृपाचनम्
यानयुग्यस्य हरणं षष्ठमुक्तं नृपाचनम्
राज्ये त्वहितकारित्वं सप्तमं निरयं स्मृतम्
लालासंकीर्णमेवोक्तमष्टमं नरकं स्मृतम्
विरोधं बन्धुभिश्चोक्तं नवमं नरपाचनम्
शास्त्रस्तेयं धर्मनाशं दशमं परिकीर्तितम्
एकादशममेवोक्तं नरकं सद्भिरुत्तमम्
संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम्
संभेदः संविदामेतत् त्रयोदशममुच्यते
चतुद्र्दशममोवोक्तं नरकं तद् विगर्हितम्
स्मृतं तत् पञ्चदशममस्त्यवचनानि च
सर्वस्य चाततायित्वलमावासेष्वग्निदीपनम्
ईर्षर्याभावश्च सत्येषु उद्धृत्तं तु विगर्हितम्
संयुक्तः प्रीणयेद् देवं संतत्या जगतः पतिम्
पुंनामनरकं घोरं विनाशयति सर्वतः
अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम्
पितृणां च द्विजश्रेष्ठ सर्वर्वणेषु चैकता
मत्स्यादश्च महापापमगम्यागमनं तथा
स्वदोषाच्छादनं पापं परदोषप्रकाशनम्
टाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्मजम्
एतैश्च पापैः संयुक्तः प्रीणयेद् यदि शङ्करम्
शारीरं वाचिकं यत् तु मानसं कायिकं तथा
भ्रातृभिर्बान्धवैश्चापि तस्मिन् जन्मनि धर्मज
विपरीते भवेत् साध्य विपरीतः पदक्रमः
सेषात् तारयते शिष्यः सर्वतो ऽपि हि पुत्रकः
त्रिः सत्यं तव पुत्रो ऽहं देव योगं वदस्व मे
दास्येते च ततः सूनुर्दायादो मे ऽसि पुत्रक
येयं हि भवता प्रोक्ता तां मे व्याख्यातुमर्हसि
प्राह प्रहस्य भगवान् क्श्रुणु वत्सेति नारद