एतस्मिन्नन्तरे दैत्यः संप्राप्तो नगरीं मुरः
वदस्व वचनं कर्त्ता त्वदीयं दानवेश्वर
नो चेत् तवाद्य छित्त्वाहं मूर्धानं पातये भुवि
अहमेन पराजित्य वारयामि न संशयः
श्वेतद्वीपनिवासी यः स मां संयमते ऽव्ययः
स्वयं तत्र गमिष्यामि तस्य संयमनोद्यतः
तत्रास्ते भगवान् विष्णुर्लोकनाथो जगन्मयः
किं तु त्वया न तावद्धि संयम्या धर्म मानवाः
संयन्तुर्वा यथा स्याद्धि ततो युद्धं समाचर
यत्रास्ते शेषपर्यङ्के चतुर्मूर्तिर्जनार्दनः
सर्वगत्वात् कथमपि अव्यक्तत्वाच्च तद्वद
चतुर्मूर्तिर्जगन्नाथो यता ब्रह्मंस्तथा शृणु
वासुदेवाख्यमाव्यक्तं स्मृतं द्वादशपत्रकम्
कान्यस्य द्वादशैवोक्ता पत्रका तानि मे वद
श्रतं सनत्कुमारेम तेनाख्यातं च तन्मम
तवापि तेन गदितं वद मामनुपूर्वशः
संजातं मुनिसार्दुल योगशास्त्रविचारकम्
तृतीयः सनको नाम चतुर्थश्च सनन्दनः
दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम्
मानमुक्तं महायोगं कपिलादीनपासतः
अपृच्छद् योगविज्ञानं तमुवाच प्रजापतिः
यस्य कस्य न वक्तव्यं तत्सत्यं नान्यथेति हि
न विसेषो ऽस्ति पुत्रस्य शिष्यस्य च पितामह
धर्मकर्मसमायोगे तथापि गदतः श्रुणु
सेषपापहरः शिष्य इतीयं वैदिकी श्रुतिः
कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद
तथैव चोग्रं भयहारि मानवं वदामि ते साध्य निशामयैनम्
पारुष्यं सर्वभूतानां प्रथमं नरकं स्मृतम्
छेदनं वृक्षजातीनां द्वितीयं नरकं स्मृतम्
विवादमर्थहेतूत्थं तृतीयं नरकं स्मृतम्