नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने
ददर्श दग्धुं कोपेन सर्वांश्चैव सुरामुरान्
भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम्
दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात्
दुद्राव विक्लवगतिर्दक्षिणासहितो ऽम्बरे
शरं पाशुपतं कृत्वा कालरूपी महेश्वरः
अर्द्धेन गगने शर्वः कालरूपी च कथ्यते
लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि
येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना
मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः
सौम्यार्द्ध वृषनामेदं वदनं परिकीर्तितम्
मिथुनं भुजयोस्तदस्य गगनस्थस्य शूलिनः
सूर्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिगीयते
सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः
द्वितीयं सुक्रसदनं तुला नाभिरुदाहृता
द्वितीयं वृश्चिको राशिर्मेढ्रं कालसवरूपिणः
ऊरुयुगलमीशस्य अमरर्षे प्रगीयते
धनिष्ठार्धं शतभिषा जानुनी परमेष्ठिनः
सौरेः सद्मापरमिदं कुम्भो जङ्घे च विश्रते
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ
विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः
तेषां विशेषतो ब्रूहि लक्षणानि स्वरूपतः
यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च
संचारस्थानमेवास्य धान्यरत्नाकरादिषु
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च
तस्याधिवासभूमित्तु कुषीवलधराश्रयः
वीणावाद्यधृङ् मिथुनं गीतनर्तकशिल्पिषु
मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्थितः
केदारवापीपुलिने विविक्तावनिरेव च
वसते व्याधपल्लीषु गह्वरेषु गुहासु च