स्वस्त्यस्तु लोकेभ्य इति जपन्तः परमर्षयः
दृष्ट्वोचुः किमिदं लोकाः क्षुब्धाः संशयमागताः
तदागच्छत वो युक्तं द्रष्टुं चक्रगदाधरम्
पितामहं पुरस्कृत्य मुरारिसदनं गताः
दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम्
दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम्
कथं च नहतः संख्ये विष्णुना तद् वदस्व मे
विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम्
स ददर्श रणे शस्तान् दितिपुत्रान् सुरोत्तमैः
आराधयामास विभुं ब्रह्माणमपराजितम्
स च वव्रे वरं दैत्यो वरमेनं पितामहात्
स स मद्धस्तसंस्पृष्टस्त्वमरो ऽपि मरत्वतः
ततो ऽभ्यागान्महातेजा मुरः सुरगिरिं बली
न कश्चिद् युयुधे तेन समं दैत्येन नारद
न चास्य सह योद्धुं वै मतिं चक्रे पुरन्दरः
प्रविशन्तं न तं कश्चिन्निवारयितुमुत्सहेत्
देहि युद्धं सहस्राक्ष नो चेत् स्वर्गं परित्यज
स्वर्गराज्यं परित्यज्य भूचरः समजायत
सकलत्रो महातेजाः सह देवैः सुतेन च
मुरुश्चापि महाभोगान् बुभुजे स्वर्गसंस्थितः
मुरमासाद्य मोदन्ते स्वर्गे सुकुतिनो यथा
एकाकी कुञ्जरारूढं सरयूं निम्नगां प्रति
ददृशो रघुनामानं दीक्षितं यज्ञकर्मणि
नो चेन्निवर्ततां यज्ञो नेष्टव्या देवतास्त्वया
प्रोवाच बुद्धिमान् ब्रह्मन् वसिष्ठस्तपतां वरः
प्रहर्तुमिच्छसि यदि तं निवारय चान्तकम्
तस्मिञ्जिते हि विजितं सर्वं मन्यस्व भूतलम्
जगाम धर्मराजानं विजेतुं दण्डपाणिनम्
स समारुह्य महिषं केशवान्तिकमागमत्
स चाह गच्छ मामद्य प्रेपयस्व महासुरम्