ये जलं तावके तीर्थे पीत्वा संयमिनो नराः
तेषां हृत्पङ्कजेष्वेव मल्लिङ्गं भविता ध्रुवम्
पितॄणामक्षयं श्राद्धं भविष्यति न संशयः
भविष्यन्त्यक्षया नॄणां मृतानामपुनर्भवः
पुनाति पुंसां केदारस्त्रिनेत्रवचनं यथा
स्नातुं भानुसुतां देवीं कालिन्दीं पापनाशिनीम्
वृतां तीर्थशतैः पुण्यैः प्लक्षजां पापनाशिनीम्
द्रुपदां नाम गायत्रीं जजापान्तर्जले हरः
साग्राः संवत्सरो जातो न चोन्मज्जत ईश्वरः
चेलुः पेतुर्धरण्यां च नक्षत्रास्तारकैः सह
स्वस्त्यस्तु लोकेभ्य इति जपन्तः परमर्षयः
दृष्ट्वोचुः किमिदं लोकाः क्षुब्धाः संशयमागताः
तदागच्छत वो युक्तं द्रष्टुं चक्रगदाधरम्
पितामहं पुरस्कृत्य मुरारिसदनं गताः
दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम्
दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम्
कथं च नहतः संख्ये विष्णुना तद् वदस्व मे
विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम्
स ददर्श रणे शस्तान् दितिपुत्रान् सुरोत्तमैः
आराधयामास विभुं ब्रह्माणमपराजितम्
स च वव्रे वरं दैत्यो वरमेनं पितामहात्
स स मद्धस्तसंस्पृष्टस्त्वमरो ऽपि मरत्वतः
ततो ऽभ्यागान्महातेजा मुरः सुरगिरिं बली
न कश्चिद् युयुधे तेन समं दैत्येन नारद
न चास्य सह योद्धुं वै मतिं चक्रे पुरन्दरः
प्रविशन्तं न तं कश्चिन्निवारयितुमुत्सहेत्
देहि युद्धं सहस्राक्ष नो चेत् स्वर्गं परित्यज
स्वर्गराज्यं परित्यज्य भूचरः समजायत
सकलत्रो महातेजाः सह देवैः सुतेन च
मुरुश्चापि महाभोगान् बुभुजे स्वर्गसंस्थितः