वरं क्लीबैर्भाव्यं न च परकगलत्राभिगमनं वरं भिक्षार्थित्वं न च परधनास्वादमसकृत्
इयं सा शत्रुजननीत्येवमुक्त्वा प्रदुद्रुवे
तान् रुरोध बलान्नन्दी वज्रोद्यतकरो ऽव्ययः
कुलिशोनाहतास्तूर्णं जग्मुर्भीता दिशो दश
परिघेण समाहत्य पातयामास नन्दिनम्
शतरूपाभवद् गौरी भयात् तस्य दुरात्मनः
यथा वने मत्तकरी परिभ्रमन् करेणुमध्ये मदलोलदृष्टिः
नात्राश्चर्यं न पश्यन्ति चत्वारो ऽमी सदैव हि
सो ऽपश्यमानो गिरिजां पश्यन्नपि तदान्धकः
ततो देव्या स दुष्टात्मा शतवर्या निराकृतः
वीक्ष्यान्धकं निपतितं शतरूपा विभावरी
पतितं चान्धकं दृष्ट्वा दैत्यदानवयूथपाः
तेषामापततां शब्दं श्रुत्वा तस्थौ गणेश्वरः
आदाय वज्रं बलवान् मघवानिव गणेश्वरः
देवी च ता निजा मूर्तिः प्राह गच्छध्वमिच्छया
वसतिर्भवतीनां च उद्यानेषु वनेषु च
वनस्पतिषु वृक्षेषु गच्छध्वं प्रणिपत्याम्बिकां क्रमात्
स्वबलं निर्जितं दृष्ट्वा ततः पातालमाद्रवात्
रात्रौ न शेते मदनेषुताडितो गौरीं स्मरन्कामबलाभिपन्नः
अनधकं योधयामास एतन्मे वक्तुमर्हसि
तदाप्रभृति निस्तेजाः क्षीणवीर्यः प्रदृश्यते
तपोर्थाय तथा चक्रे मतिं मतिमतां वरः
शैलादिं स्थाप्य गोप्तारं विचचार महीतलम्
धारयाणः कटीदेशे महाशङ्खस्य मेखलाम्
एकाहवासी वृक्षे हि शैलसानुनदीष्वटन्
वाय्वाहारस्तदा तस्थौ नववरिषशतं क्रमात्
विस्तृते हिमवत्पुष्ठे रम्ये समशिलातले
सार्चिष्मती जटामध्यान्निषण्णा धरणीतले
जातस्तीर्थवरः पुम्यः केदार इति विश्रुतः
पुण्यवृद्धिकरं ब्रह्मन् पापघ्नं मोक्षसाधनम्