निपत्य पादौ प्रतिवन्द्य हृष्टो निवेदयामास हरप्रसादम्
क्रौञ्चस्य मृत्युः शरणागतार्थं पापापहं पुण्यविवर्धनं च
स केन वद निर्भिन्नः शरेण दितिजेश्वरः
सूरो ऽसैन्यदमनो बलवान् सुहृत्सु विप्रान्धदीनकृपणेषु समानभावः
पातालकेतुं निजघान पृष्ठे बाणेन चन्द्रार्धनिभेन वेगात्
येनासौ पत्रिणा दैत्यं निजघान नृपात्मजः
पपातालकेतुस्तपसो ऽस्य विघ्नं करोति मौढ्यात् स समाधिभङ्गम्
आकाशमीक्ष्याथ स दीर्घमुष्णं मुमोच निःश्वासमनुत्तमं हि
असौ तुरङ्गो बलवान् क्रमेत अह्ना सहस्राणि तु योजनानाम्
स्थितस्तपस्येव ततो महर्षिर्दैत्यं समेत्य विशिखैर्नृपजो बिभेद
वाक् कस्यादेहिनी जाता परं कौतूहलं मम
निसृष्टवान् भूवलये तुरङ्गं ऋतध्वजस्यैव सुतार्थमाशु
राज्ञः कुवलयाश्वस्य कोर्ऽथो नृपसुतस्य च
लावण्यराशिः शशिकान्तितुल्या मदालसा नाम मदालसैव
पातालकेतुस्तु जहार तन्वीं तस्यार्थतः सो ऽश्ववरः प्रदत्तः
दृष्टो यथा देवपतिर्महेन्द्रः शच्या तथा राजसुतो मृगाक्ष्या
हिरण्याक्षसुतो धीमान् किमचेष्टत वै पुनः
क्रोधं चक्रे सुदुर्बुद्धिर्देवानां देवसैन्यहा
निर्जगामाथ पातालाद् विचचार च मेदिनीम
दृष्टा गौरी च गिरिजा सखीमध्ये स्थिताशुभा
तां दृष्ट्वा चारुसर्वाङ्गीं गिरिराजसुतां वने
कस्येयं चारुसर्वाङ्गी वने चरति सुन्दरी
तन्मदीयेन जीवेन क्रियते निष्फलेन किम्
अतो धिङ् मम रूपेण किं स्थिरेण प्रयोजनम्
यो मामसितकेशां तां योजयेन् मृगलोचनाम्
पिधाय कर्णो हस्ताभ्यां शिरःकम्पं वचो ऽब्रवीत्
लोकनाथस्य भार्योयं शङ्करस्य त्रिशूलिनः
भवतः परदारोयं मा निमज्ज रसातले
शत्रवस्ते प्रकुर्वन्तु परदारावगाहनम्
दृष्ट्वा सैन्यं विप्रधेनुप्रसक्तं तथ्यं पथ्यं सर्वलोके हितं च