बिभेद शक्त्या कौटिल्यो महिषेण समं तदा
ब्रह्मेन्द्ररुद्रश्विवसुप्रधाना जग्मुर्दिवं महिषमीक्ष्य हतं गुहेन
निवारितश्चक्रधरेण वेगादालिङ्ग्य दोर्भ्या गुरुरित्युदीर्य
हरिः कुमारं सशिखण्डिनं नयद्वेगाद्दिवं पन्नगशत्रुपत्रः
भ्राता मया मातुलजो निरस्तस्तस्मात् करिष्ये स्वशरीरशोषम्
स्नात्वौघवत्यां हरमीक्ष्य भक्त्या भविष्यसे सूर्यसमप्रभावः
स्नात्वार्च्य देवान् स रविप्रकाशो जगाम शैलं सदनं हरस्य
आराधयानो वृषभध्वजं तदा हरो ऽस्य तुष्टो वरदो बभूव
छिन्द्याद्यथा त्वप्रतिमं करेण बाणस्य तन्मे भगवान् ददातु
बाणस्य तद्बाहुबलं प्रवृद्धं संछेत्स्यते नात्र विचारणास्ति
निपत्य पादौ प्रतिवन्द्य हृष्टो निवेदयामास हरप्रसादम्
क्रौञ्चस्य मृत्युः शरणागतार्थं पापापहं पुण्यविवर्धनं च
स केन वद निर्भिन्नः शरेण दितिजेश्वरः
सूरो ऽसैन्यदमनो बलवान् सुहृत्सु विप्रान्धदीनकृपणेषु समानभावः
पातालकेतुं निजघान पृष्ठे बाणेन चन्द्रार्धनिभेन वेगात्
येनासौ पत्रिणा दैत्यं निजघान नृपात्मजः
पपातालकेतुस्तपसो ऽस्य विघ्नं करोति मौढ्यात् स समाधिभङ्गम्
आकाशमीक्ष्याथ स दीर्घमुष्णं मुमोच निःश्वासमनुत्तमं हि
असौ तुरङ्गो बलवान् क्रमेत अह्ना सहस्राणि तु योजनानाम्
स्थितस्तपस्येव ततो महर्षिर्दैत्यं समेत्य विशिखैर्नृपजो बिभेद
वाक् कस्यादेहिनी जाता परं कौतूहलं मम
निसृष्टवान् भूवलये तुरङ्गं ऋतध्वजस्यैव सुतार्थमाशु
राज्ञः कुवलयाश्वस्य कोर्ऽथो नृपसुतस्य च
लावण्यराशिः शशिकान्तितुल्या मदालसा नाम मदालसैव
पातालकेतुस्तु जहार तन्वीं तस्यार्थतः सो ऽश्ववरः प्रदत्तः
दृष्टो यथा देवपतिर्महेन्द्रः शच्या तथा राजसुतो मृगाक्ष्या
हिरण्याक्षसुतो धीमान् किमचेष्टत वै पुनः
क्रोधं चक्रे सुदुर्बुद्धिर्देवानां देवसैन्यहा
निर्जगामाथ पातालाद् विचचार च मेदिनीम
दृष्टा गौरी च गिरिजा सखीमध्ये स्थिताशुभा