स्वबन्धुहन्ता भविता कथं त्वहं संचिन्तयन्नेव ततः स्थितो ऽभूत्
अभ्येत्य चोचुर्महिषं सशैलं भिन्दस्व शक्त्या कुरु देवकार्यम्
कथं हि मातामहनप्तृकं वधे स्वभ्रातरं भ्रातृसुतं च मातुः
कृत्वा च यस्या मतमुत्तमायाः स्वर्गं व्रजन्ति त्वतिपापिनो ऽपि
कृतापराधा अपि नैव वध्या आचार्यमुख्या गुरवस्तथैव
यदा दैत्यो निर्गामिष्यद् गुहान्तः तदा शक्त्या घातायिष्यामि शत्रुम्
मत्तो भवान् न मतिमान् वदसे किमर्थं वाक्यं शृणुष्व हरिणा गदितं हि पूर्वम्
निहतो नमुचिः पूर्वं सोदरो ऽपि ममानुजः
घातयस्व पराक्रम्य शक्त्या पावकदत्तया
कुमारः प्राह वचनं कम्पमानः शतक्रतुम्
येनाधिक्षिपसे मां त्वं ध्रुवं न मतिमानसि
तं गृहः प्राह एह्येहि युद्ध्यस्व बलवान् यदि
प्रदक्षिणं शीघ्रतरं यः कुर्यात् क्रौञ्चमेव हि
प्रदक्षिणं पादचारी कर्त्तु तूर्णतरो ऽब्यगात्
कृत्वा तस्थौगुहो ऽभ्येत्य मूढङ्किं संस्थितो भवान्
कृतो ऽस्य न त्वया पूर्वं कुमारः शक्रमब्रवीत्
प्राप्योचतुर्महेशाय ब्रह्मणे माधवाय च
पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम्
पप्रच्छाद्रिमिदं केन कृतं पूर्वं प्रदक्षिणम्
चकार गोत्रभित् पश्चात्त्वाया कृतमथो गुह
बिभेद शक्त्या कौटिल्यो महिषेण समं तदा
ब्रह्मेन्द्ररुद्रश्विवसुप्रधाना जग्मुर्दिवं महिषमीक्ष्य हतं गुहेन
निवारितश्चक्रधरेण वेगादालिङ्ग्य दोर्भ्या गुरुरित्युदीर्य
हरिः कुमारं सशिखण्डिनं नयद्वेगाद्दिवं पन्नगशत्रुपत्रः
भ्राता मया मातुलजो निरस्तस्तस्मात् करिष्ये स्वशरीरशोषम्
स्नात्वौघवत्यां हरमीक्ष्य भक्त्या भविष्यसे सूर्यसमप्रभावः
स्नात्वार्च्य देवान् स रविप्रकाशो जगाम शैलं सदनं हरस्य
आराधयानो वृषभध्वजं तदा हरो ऽस्य तुष्टो वरदो बभूव
छिन्द्याद्यथा त्वप्रतिमं करेण बाणस्य तन्मे भगवान् ददातु
बाणस्य तद्बाहुबलं प्रवृद्धं संछेत्स्यते नात्र विचारणास्ति