निजघान यथैवेन्द्रो वज्रवृष्ट्या नगोत्तमान्
भ्रामयन् मुद्गरं वेगान्निजघान बलाद् रिपून्
भस्म चक्रे महावेगो रथं च रथिना सह
कीलभिर्वज्रतुल्याभिर्जघान बलवान् मुने
लुण्ठनेन तता दैत्यान् निजघान सवाहनान्
विदारयति संग्रामे दानवान् समरोद्धतान्
प्रदुद्रावाथ महिषस्तारकश्च गणाग्रणीः
परिवार्य समन्तात् ते युयुधुः कुपितास्तदा
षोटशाक्षस्त्रिशूलेन शतशीर्षो वरासिना
बन्धुदत्तस्तु शूलेन मूर्ध्नि दैत्यमताडयत्
नाकम्पत् ताड्यमानो ऽपि मैनाक इव पर्वतः
वध्यते चैकचूडाया दार्यते परमायुधैः
न क्षोभं जग्मतुर्विरौ क्षोभयन्तौ गणानपि
पराजित्य पराधावत् कुमारं प्रति सायुधः
चक्रमुद्यम्य संक्रुद्धो रुरोध दनुनन्दनम्
अयुध्येतां तद ब्रह्मन् लघु चित्रं च सुष्ठु च
सुचक्राक्षो निजं चक्रमुत्ससर्जासुरं प्रति
तत उच्चुक्रुशुर्दैत्या हा हतो महिषस्तिवति
जघान चक्रं रक्ताक्षः पञ्जमुष्टिशतेन हि
बलवानपि बाणेन निष्प्रयत्नगतिः कृतः
दृष्ट्वाद्रवद्गदापाणिर्मकराक्षो महाबलः
स चापि तेन संयुक्तो व्रीडायुक्तो महामनाः
बाणो ऽपि मकाराक्षेण ताडितो ऽभूत्पराङ्मुखः
खड्गोद्यतकरो दैत्यः प्रदुद्राव गणेश्वरान्
समातरश्चापि पराजिता रणे स्कन्दं भयार्त्ताः शरणं प्रपेदिरे
दृष्ट्वैव शक्त्या हृदये बिभेद स भिन्नमर्मा न्यपतत् पृथिव्याम्
संत्यज्य संग्रामशिरो दुरात्मा जगाम शैलं स दिमाचलाख्यम्
भयाद् विवेशोग्रमपां निधानं गर्णैर्बले वध्यति सापराधे
मयूरमारुह्य शिखण्डमण्डितं ययौ निहन्तुं महिषासुरस्य
कैलासमुत्सृज्य हिमाचलं तथा क्रौञ्चं समभ्येत्व गुहं विवेश