तत्र दैत्याः समाजग्मुः सायुधाः सबला मुने
अभ्यद्रवन्त सहसा स चोग्रो मातृमण्डलः
निषूदयत् परबलं क्रुद्धो रुद्रः पशूनिव
कुठारं पाणिनादाय हन्ति सर्वान् महासुरान्
सरथं सगजं साश्वं विस्तृते वदने ऽक्षिपत
सवाहनं प्रक्षिपति समुत्पाट्य महार्मवे
संचूर्णयति मन्त्रीव राजानं प्रासभृद् वशी
द्विधा त्रिधा च बहुधा चक्रे दैतेयदानवान्
तत्र तत्र प्रदृश्यन्ते राशयः शावदानवैः
निजघानासुरान् वीरः सवाजिरथकुञ्जरान्
निजघान यथैवेन्द्रो वज्रवृष्ट्या नगोत्तमान्
भ्रामयन् मुद्गरं वेगान्निजघान बलाद् रिपून्
भस्म चक्रे महावेगो रथं च रथिना सह
कीलभिर्वज्रतुल्याभिर्जघान बलवान् मुने
लुण्ठनेन तता दैत्यान् निजघान सवाहनान्
विदारयति संग्रामे दानवान् समरोद्धतान्
प्रदुद्रावाथ महिषस्तारकश्च गणाग्रणीः
परिवार्य समन्तात् ते युयुधुः कुपितास्तदा
षोटशाक्षस्त्रिशूलेन शतशीर्षो वरासिना
बन्धुदत्तस्तु शूलेन मूर्ध्नि दैत्यमताडयत्
नाकम्पत् ताड्यमानो ऽपि मैनाक इव पर्वतः
वध्यते चैकचूडाया दार्यते परमायुधैः
न क्षोभं जग्मतुर्विरौ क्षोभयन्तौ गणानपि
पराजित्य पराधावत् कुमारं प्रति सायुधः
चक्रमुद्यम्य संक्रुद्धो रुरोध दनुनन्दनम्
अयुध्येतां तद ब्रह्मन् लघु चित्रं च सुष्ठु च
सुचक्राक्षो निजं चक्रमुत्ससर्जासुरं प्रति
तत उच्चुक्रुशुर्दैत्या हा हतो महिषस्तिवति
जघान चक्रं रक्ताक्षः पञ्जमुष्टिशतेन हि
बलवानपि बाणेन निष्प्रयत्नगतिः कृतः