न जाने तं नरं राजन् येन मे प्रहितः शरः
प्रणष्ट आश्रमात् तस्मात् स च मां पृष्ठतो ऽन्वगात्
तद्भयादस्मि जलधिं संप्राप्तो दक्षिणार्णवम्
केचिद् गर्जन्ति घनवत् प्रतिगर्जन्ति चापरे
तारकं घातयामो ऽद्य वदन्त्यन्ये सुतैजसः
महार्णवं परित्यज्य पतितो ऽस्मि भयातुरः
तद्भयात् संपरित्यज्य हिरण्यपुरमात्मनः
तच्छ्रत्वा चान्धको वाक्यं प्राह मेघस्वनं वचः
महिषस्तारकश्चोभौ बाणश्च बलिनां वरः
स्वपरिग्रहसंयुक्ता भूमिं युद्धाय निर्ययुः
तत्र दैत्याः समाजग्मुः सायुधाः सबला मुने
अभ्यद्रवन्त सहसा स चोग्रो मातृमण्डलः
निषूदयत् परबलं क्रुद्धो रुद्रः पशूनिव
कुठारं पाणिनादाय हन्ति सर्वान् महासुरान्
सरथं सगजं साश्वं विस्तृते वदने ऽक्षिपत
सवाहनं प्रक्षिपति समुत्पाट्य महार्मवे
संचूर्णयति मन्त्रीव राजानं प्रासभृद् वशी
द्विधा त्रिधा च बहुधा चक्रे दैतेयदानवान्
तत्र तत्र प्रदृश्यन्ते राशयः शावदानवैः
निजघानासुरान् वीरः सवाजिरथकुञ्जरान्
निजघान यथैवेन्द्रो वज्रवृष्ट्या नगोत्तमान्
भ्रामयन् मुद्गरं वेगान्निजघान बलाद् रिपून्
भस्म चक्रे महावेगो रथं च रथिना सह
कीलभिर्वज्रतुल्याभिर्जघान बलवान् मुने
लुण्ठनेन तता दैत्यान् निजघान सवाहनान्
विदारयति संग्रामे दानवान् समरोद्धतान्
प्रदुद्रावाथ महिषस्तारकश्च गणाग्रणीः
परिवार्य समन्तात् ते युयुधुः कुपितास्तदा
षोटशाक्षस्त्रिशूलेन शतशीर्षो वरासिना
बन्धुदत्तस्तु शूलेन मूर्ध्नि दैत्यमताडयत्