मृकण्डुजस्ते कुरुतां हि स्वस्ति स्वस्ति सदा सप्त महर्षयश्च
यक्षाः पिशाचा वसवो ऽथ किन्नराः ते स्वस्ति कुर्वन्तु सदोद्यतास्त्वमी
महाबला भूतगणा गणेन्द्राः ते स्वस्ति कुर्वन्तु सदा समुद्यताः
स्वस्ति ते बहुपादेभ्यस्त्वपादेभ्यो ऽप्यनामयम्
पाशी प्रतीचीं रक्षतु लक्ष्मामशुः पातु चोत्तराम्
प्रतीचीमुत्तरां वायुः शिवः पूर्वोत्तरामपि
मुसती लाङ्गली चक्री धनुष्मानन्तरेषु च
सामवेदध्वनिः श्रीमान् सर्वलतः पातु माधवः
प्रणिपत्य सुरान् सर्वान् समुत्पतत भूतलात्
अनुजग्मुः कुमारं ते कामरूपा विहङ्गमाः
समं स्कन्देन बलिना हन्तुकामा महासुरान्
भूम्यां तूर्णं महावीर्याः कुरुध्वमवतारणम्
आरात् पतन्तस्तद्देशं नादं चक्रुर्भयङ्करम्
विवेशार्णवरन्ध्रेण पातालं दानवालयम्
विरोजनेन जम्भेन कुजम्भेनासुरेण च
किमेतदिति संचिन्त्य तूर्णं जग्मुस्तदान्धकम्
मन्त्रयामासुरुद्विग्नास्तं शब्दं प्रति नारद
पातालकेतुर्दैत्येन्द्रः संप्राप्तो ऽथ रसातलम्
अब्रवीद् वचनं दीनं समभ्येत्यान्धकासुरम्
तं विध्वंसयितुं यत्नं समारब्धं बलान्मया
न जाने तं नरं राजन् येन मे प्रहितः शरः
प्रणष्ट आश्रमात् तस्मात् स च मां पृष्ठतो ऽन्वगात्
तद्भयादस्मि जलधिं संप्राप्तो दक्षिणार्णवम्
केचिद् गर्जन्ति घनवत् प्रतिगर्जन्ति चापरे
तारकं घातयामो ऽद्य वदन्त्यन्ये सुतैजसः
महार्णवं परित्यज्य पतितो ऽस्मि भयातुरः
तद्भयात् संपरित्यज्य हिरण्यपुरमात्मनः
तच्छ्रत्वा चान्धको वाक्यं प्राह मेघस्वनं वचः
महिषस्तारकश्चोभौ बाणश्च बलिनां वरः
स्वपरिग्रहसंयुक्ता भूमिं युद्धाय निर्ययुः