दक्षस्य यज्ञं विशति क्षयङ्करे जातो ऋषीणां प्रवरो हि साध्वसः
तस्मात् स्थानादपाक्रम्य कुब्जाम्रे ऽन्तर्हितः स्थितः
सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती
कान्दिशीका लयं जग्मुः समभ्येत्यैव शङ्करम्
समासाद्य पुरोडाशं भक्ष्याश्च महामुने
उत्पत्यरुह्य गगनं स्वमधिष्ठानमास्थितः
पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने
शक्रादीनां सुरेशानां कृपणं विललाप ह
तलप्रहारैरमरा बहवो विनिपातिताः
दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः
क्रोधाद् बाहू प्रसार्यथ प्रदुद्राव महेश्वरम्
बाहुभ्यां प्रतिजग्राह करेणैकेन शङ्करः
कराङ्गुलिभ्यो निश्चेरुरसृग्धाराः समन्ततः
भ्रामयामास सततं सिंहो मृगशिशुं यथा
भुजौ हस्वत्वमापन्नौ त्रुटितस्नायुबन्धनौ
प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम्
मुष्टिनाहत्य दशनाः पातिता धरणीतले
पपात भुवि निःसंज्ञो वज्राहत इवाचलः
नेत्राभ्यां घोररूपाभ्यां वृषध्वजमवैक्षत
निपातयामास भुवि क्षोभयन्सर्वदेवताः
नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने
ददर्श दग्धुं कोपेन सर्वांश्चैव सुरामुरान्
भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम्
दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात्
दुद्राव विक्लवगतिर्दक्षिणासहितो ऽम्बरे
शरं पाशुपतं कृत्वा कालरूपी महेश्वरः
अर्द्धेन गगने शर्वः कालरूपी च कथ्यते
लक्षणं च स्वरूपं च सर्वं व्याख्यातुमर्हसि
येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना
मेषो राशिः कुजक्षेत्रं तच्छिरः कालरूपिणः