सप्तसारस्वतः प्रादान्मातरश्चतुरोद्भुताः
एकचूडां नागतीर्थः कुरुक्षेत्रं पलासदाम्
चौण्डीं भैण्डीं योगभैण्डीं प्रादाच्चरणपावनः
शकघण्टां शतानन्दां तथोलूखलमेखलाम्
सुषमामैकचूडां च देवीं धमधमां तथा
सुनक्षत्रां कद्रुलां च सुप्रभातां मुङ्गलाम्
कोटरामूर्ध्वणीं च श्रीमतीं बहुपुत्रिकाम्
सूपलां मधुकुम्भां च ख्यातिं दहदहां पराम्
संतानिकां विकलिकां क्रमश्चत्वरवासिनीम्
रौद्रा कर्कटिका तुण्डा श्वेततीर्थो ददौ त्विमाः
ददौ मयूरं स्वसुतं महाजवं तथारुणस्ताम्रचूडं च पुत्रम्
मालां हरिः शूलधरः पताकां कण्ठे च हारं मघवानुरस्तः
सैन्याधिपत्ये स कृतो भवेन रराज सूर्येव महावपुष्मान्
प्रणिपत्य भवं भक्त्या गिरिजां पावकं शुचिम्
ब्रह्माणं च नमस्कृत्य इदं वचनमब्रवीत्
युष्मत्प्रसादाज्जेष्यामि शत्रू महिषतारकौ
दीयतां ब्रह्मणा सार्द्धमनुज्ञ मम साम्प्रतम्
मुखं निरीक्षन्ति सुराः स्रेवे विगतसाध्यमाः
आदाय दक्षिणे पाणौ स्कन्दान्तिकमुपागमत्
वन्दस्व चरणौ दिव्यौ विष्णोर्लोकनमस्कृतौ
यस्यादरात् प्रणामो ऽयं क्रियते मद्विधैर्जनैः
वक्ष्यते तव यो ऽयं हि महात्मा गरुडध्वजः
नान्यः परतरो ऽस्माद्धि वयमन्ये च देहिनः
तस्थौ कृताञ्जलिपुटस्त्वाज्ञां प्रार्थयते ऽच्युतात्
कृत्वा स्वस्त्ययनं देवो ह्यनुज्ञां प्रददौ ततः
शिखिध्वजाय विप्रर्षे तन्मे व्याख्यातुमर्हसि
स्कन्दस्य विजयार्थाय महिषस्य वधाय च
स्वस्ति चक्राङ्कितकरो विष्णुस्ते विदधत्वाजः
पावकः स्वस्ति तुभ्यं च करोतु शिखिवाहन
काव्यः सदा स्वस्ति करोतु तुभ्यं शनैश्चरः स्वस्त्ययनं करोतु