चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम्
प्रददुः प्रमथान् स्वान् स्वान् सर्वे ब्रह्मपुरोगमाः
संक्रमं विक्रमं चैव तृतीयं च पराक्रमम्
चन्द्रो मणिं वसुमणिमश्विनौ वत्सनन्दिनौ
कुन्दं मुकुन्दं कुसुमं त्रीन् धातानुचरान् ददौ
पाणित्यजं कालकञ्च प्रादात् पूषा महाबलौ
प्रादादेवोच्छ्रितो विन्ध्यस्त्वतिशृङ्गं च पार्षदम्
संग्रहं विग्रहं चाब्धिर्नागा जयमहाजयौ
घसं चातिघसं वायुः प्रादादनुचरावुभौ
प्रददावंशुमान् पञ्च प्रमथान् षण्मुखाय हि
तालपत्रं नाडिजङ्घं षडेवानुचरान् ददौ
सुव्रतं सत्यसन्धं च मित्रः प्रदाद द्विजोत्तम
एकाक्षः कुनटी चक्षुः किरीटी कलशोदरः
गणाः पञ्चदशैते हि यक्षैर्दत्ता गुहस्य तु
मन्दाकिन्यास्तथा नन्दो विपाशायाः प्रियङ्करः
मार्जारं सौशिकी प्रादात् क्रथक्रौञ्चौ च गौतमी
भीमं भीमरथी प्रादाद् वेगारिं सरयूर्ददौ
महानदी चित्रदेवं चित्रा चित्ररथं ददौ
जम्बूकं धूतपापा च वेणा श्वेताननं ददौ
प्रभावार्थं सहं प्रादात् काञ्चना कनकेक्षणम्
धूतपापा महारावं कर्णा विद्रुमसंनिभम्
यज्ञबाहुं विशाला च सरस्वत्यो ददुर्गणान्
करालं सितकेशं च कृष्णकेशं जटाधरम्
सोमाप्ययनमेवोग्रं देवयाजिनमेव च
कूर्मग्रीवं च पञ्चैतान् ददुः पुत्राय कृत्तिकाः
पिण्डाकारं च पञचैतान् ददुः स्कन्दायट चर्षयः
चाषवक्त्रं च जम्बूकं ददौ तीर्थः पृथूदकः
गणं पञ्चशिखं नाम ददौ कनखलः स्वकम्
सर्वौञ्जसं माहिषकं मानसः पिङ्गलं यथा
वसुदामां सोमतीर्थः प्रभासो नन्दिनीमपि