विवदन्तौ ददर्साथ स्वेच्छाचारी जनार्दनः
तावूचतुः वुत्रहेतो रुद्रशुक्रोद्भवाय हि
स यदा वक्ष्यति देवेशस्तत्कुरुध्वमसंशयम्
सम्भ्येत्योचतुस्तथ्यं कस्य पुत्रेति नारद
दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलको ऽब्रवीत्
प्रष्टुं समाश्रयेद् यं स तस्य पुत्रो भविष्यति
सहोमया कुटिलया पावकेन च धीमता
ददृशुः शिशुकं तं च कृत्तिकोत्सङ्गशायिनम्
योगी चतुर्मूर्तिरभूत् षण्मुखः स शिशुस्त्वपि
कुटिलामगमच्छाखो महासेनो ऽग्निमभ्ययात्
पावकश्चापि देवेशः परां मुदमवाप च
ता अब्रवीद्धरः प्रतीत्या विधिवद् वचनं मुने
कुटुलायाः कुमारेति पुत्रो ऽयं भविताव्ययः
गुह इत्येव नाम्ना च ममासौ तनयः स्मृतः
माहासेन इति ख्यातो हुताशस्यास्तु पुत्रकः शारद्वत इति ख्यातः सुतः शरवणस्य च
षडास्यत्वान् महाबाहुः षण्मुखो नाम गीयते
सस्मार दैवतैः सार्द्ध ते ऽप्याजग्मुस्त्वरान्विताः
दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृत्तिकास्तथा
ददृशुर्बालमत्युग्रं षण्मुखं सूर्यसंनिभम् मुष्णन्तमिव चक्षुंषि तेजसा स्वेन देवताः
देवकार्यं त्वया देव कृतं देव्याग्निना तथा
कुरुक्षेत्रे सरस्वत्यामभिष्ञ्चाम षण्मुखम्
महिषं घातयत्वेष तारकं च सुदारुणम्
कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम्
यत्नमस्याभिषेकार्तं चक्रुर्मुनिगणैः सह
वरौषधीभिश्च सहस्रमूर्त्तिभिस्तदाभ्यषिञ्चन् गुमच्युताद्याः
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः
स्नेहादुत्सङ्गगं स्कन्दं मूर्ध्न्यजिघ्रन्मुर्हुर्मुहुः
भात्यद्रिजा यथेन्द्रस्य देवमातादितिः पुरा
पावकः कृत्तिकाश्चैव कुटिला च यशस्विनी
प्रमथांश्चतुरः प्रदाच्छक्रतुल्यपराक्रमान्