श्रोतव्यमेतन्नियतैः सदैव रक्षोघ्नमेतद्भगवानुवाच
एतन्मे विस्तराद् ब्रह्मन् कथयस्वामितद्युते
यशोवृद्धिं कुमारस्य कार्तिकेयस्य नारद
तेनाक्रान्तो ऽभवद् ब्रह्मन् मन्दतेजा हुताशनः
तैश्चापि प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह
तां दृष्ट्वा प्राह कुटिले तेज एतत्सुदुर्द्धरम्
तस्मात् प्रतीच्छ पुत्रो ऽयं तव धन्यो भविष्यति
प्रक्षिपस्वाम्भसि मम प्राह वह्निं महापगा
मांसमस्थीनि रुधिरं मेदोन्त्ररेतसी त्वचः
हिरण्यरेता लोकेषु तेन गीतश्च पावकः
धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता
दृष्ट्वा पप्रच्छ गेनायं तव गर्भः समाहितः
तदशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम
गर्भस्य वर्त्तते कालो न पपात च कर्हिचित्
तत्रास्ति योजनशतं रौद्रं शरवणं महत्
दशवर्षसहस्रान्ते ततो बालो भविष्यति
आगत्य गर्भं तत्याज सुखेनैवाद्रिनन्दिनी
आपोमयी मन्त्रवशात् संजाता-कुटिला सती
तन्निवासरताश्चान्ये पादपा मृगपक्षिणः
बालार्कदीप्तिः संजातो बालः कमललोचनः
मुखे ऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव
ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम्
अहं पूर्वमहं पूर्वं तस्मै स्तन्ये ऽभिचुक्रुशुः
अबीभरंश्च ताः सर्वाः शिशुं स्नेहाच्च कृत्तिकाः
कार्त्तिकेयेति विख्यातो जातः स बलिनां वरः
कियत्प्रमाणः पुत्रस्ते वर्त्तते साम्प्रतं गुहः
प्रोवाच पुत्रं देवेश न वेद्मि कतमो गुहः
त्रैयम्बलं त्रिलोकेश जातः शरवणे शिशुः
वेगिनं मेषमारुह्य कुटिला तं ददर्श ह
सो ऽब्रवीत् पुत्रदुष्ट्यर्थं जातं शरवणे शिशुम्