शिरश्चिच्छेद बाणेन कुण्डलालङ्कृतं शिवा
यथा समहिषः क्रोञ्चो महासेनसमाहतः
आगत्य तं गिरिवरं विनयावनम्रा देव्यास्तदा स्तुतिपदं त्विदमीरयन्तः
नमो ऽस्तु ते हरिहरराज्यदायिनि नमो ऽस्तु ते मखभुजकार्यकारिणि
नमो ऽस्तु ते महिषविनासकारिणि नमो ऽस्तु ते हरिहरभास्करस्तुते
नमो ऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमो ऽस्तु नारायणि चक्रधारिणि
नमो ऽस्तु ते वज्रधरे गजध्वजे नमो ऽसुत कौमारि मयूरवाहिनि
नमो ऽस्तु ते रासभपृष्ठवाहिनि नमो ऽस्तु सर्वार्त्तिहरे जगन्मये
नमो ऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद
दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डाशवगमनरता योगिनी योगसिद्धा
नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये
प्राप्तो मयाद् भुततमो भवतां प्रसादात् संग्राममूर्ध्वि सुरशत्रुजयः प्रमर्दात्
दुःस्वप्ननाशो भविता न संशयो वरस्तथान्यो व्रियतामभीप्सितः
पुनरपि देवरिपूनपरांस्त्वं प्रदह हुताशनतुल्यशरीरे
अन्धासुरस्याप्रतिपोषणे रता नाम्ना प्रसिद्धा भुवनेषु चर्चिका
तं विप्रचित्तिं लवणं तथापरौ शुम्भं निशुम्भं दशनप्रहारिमी
संभूय देव्यामितसत्यधामया सुरा भरिष्यामि च शाकम्भरी वै
दुर्वृत्तचेष्टान् विनिहत्य दैत्यान् भूयः समेष्यामि सुरालयं हि
महालिरूपेण विनष्टजीवितं कृत्वा समष्यामि पुनस्त्रिविष्टपम्
विसृज्य भूतानि जगाम देवी खं सिद्धसंघैरनुगम्यमाना
श्रोतव्यमेतन्नियतैः सदैव रक्षोघ्नमेतद्भगवानुवाच
एतन्मे विस्तराद् ब्रह्मन् कथयस्वामितद्युते
यशोवृद्धिं कुमारस्य कार्तिकेयस्य नारद
तेनाक्रान्तो ऽभवद् ब्रह्मन् मन्दतेजा हुताशनः
तैश्चापि प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह
तां दृष्ट्वा प्राह कुटिले तेज एतत्सुदुर्द्धरम्
तस्मात् प्रतीच्छ पुत्रो ऽयं तव धन्यो भविष्यति
प्रक्षिपस्वाम्भसि मम प्राह वह्निं महापगा
मांसमस्थीनि रुधिरं मेदोन्त्ररेतसी त्वचः
हिरण्यरेता लोकेषु तेन गीतश्च पावकः