विशीर्मचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम
संस्तम्भमोहज्वरपीडिते ऽथ चित्रे यथासौ लिखितो बभूव
अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन
प्रोवाच चिन्तयित्वाथ वचनं वदतां वरः
शतधा यास्यते भीरु आमपात्रमिवाम्भसि
करोमि बुद्धि तस्मात् त्वं मां भजस्वायतेक्षणे
निवर्त्तय मतिं युद्धाद् भार्या मे भव साम्प्रतम्
विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत्
भवान् यदिह भार्यार्थो ततो मां जय संयुगे
प्रचिक्षेप तदा वेगात् कौशिकीं प्रति नारद
चिच्छेद चर्मणा सार्द्ध तदद्भुतमिवाभवत्
समाद्रवत् कोशभवां वायुवेगसमो जवे
गदया सह चिच्छेद क्षुरेप्रेण रणे ऽम्बिका
चण्डाद्य मातरो हृष्टाश्चक्रुः किलकिलाध्वनिम्
जयस्व विजयेत्यूचुर्हृष्टाः शत्रौ निपातिते
पुष्पवृष्टिं च मुमुचुः सुराः कात्यायनीं प्रति
वृन्दारकं समारुह्य पाशपाणिः समभ्यगात्
जग्रा ह चतुरो वाणांश्चन्द्रार्धाकरवर्चसः
द्वाभ्यां कुम्भे जघानाथ हसन्ती लीलयाम्बिका
शक्रवज्रसमाक्रान्तं शैलराजशिरो यथा
शिरश्चिच्छेद बाणेन कुण्डलालङ्कृतं शिवा
यथा समहिषः क्रोञ्चो महासेनसमाहतः
आगत्य तं गिरिवरं विनयावनम्रा देव्यास्तदा स्तुतिपदं त्विदमीरयन्तः
नमो ऽस्तु ते हरिहरराज्यदायिनि नमो ऽस्तु ते मखभुजकार्यकारिणि
नमो ऽस्तु ते महिषविनासकारिणि नमो ऽस्तु ते हरिहरभास्करस्तुते
नमो ऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमो ऽस्तु नारायणि चक्रधारिणि
नमो ऽस्तु ते वज्रधरे गजध्वजे नमो ऽसुत कौमारि मयूरवाहिनि
नमो ऽस्तु ते रासभपृष्ठवाहिनि नमो ऽस्तु सर्वार्त्तिहरे जगन्मये
नमो ऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद
दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डाशवगमनरता योगिनी योगसिद्धा