पेतुः पृथिव्यां भुवि चापि भूतैस्ते भक्ष्यमाणाः प्रलयं प्रजग्मुः
विमुक्तकेशास्तरलेक्षणा भयात् ते रक्तबीजं शरणं हि जग्मुः
विद्रावयन् भूतगणान् समन्ताद् विवेश कोपात् स्फुरिताधरश्च
यो रक्तबिन्दुर्न्यपतत् पृथिव्यां स तत्प्रमाणस्त्वसुरो ऽपि जज्ञे
पिबस्व चण्डे रुधिरं त्वरातेर्वितत्य वक्त्रं वडवानलाभम्
ओष्ठं नभस्पृक् पृथिवीं स्पूशन्तं कृत्वाधरं तिष्ठति चर्ममुण्डा
बिभेद शूलेन तथाप्युरस्तः क्षतोद्भवान्ये न्यपतंश्च वक्त्रे
तं हीनवीर्यं शतधा चकार चक्रेण चामीकरभूषितेन
हा तात ह भ्रातरिति ब्रुवन्तः क्त यासि तिष्ठस्व मुहूर्त्तमेहि
निपातिता धरणितले मृडान्या प्रदुद्रुवुर्गिरिवरमुह्य दैत्याः
विशीर्मचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम
संस्तम्भमोहज्वरपीडिते ऽथ चित्रे यथासौ लिखितो बभूव
अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन
प्रोवाच चिन्तयित्वाथ वचनं वदतां वरः
शतधा यास्यते भीरु आमपात्रमिवाम्भसि
करोमि बुद्धि तस्मात् त्वं मां भजस्वायतेक्षणे
निवर्त्तय मतिं युद्धाद् भार्या मे भव साम्प्रतम्
विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत्
भवान् यदिह भार्यार्थो ततो मां जय संयुगे
प्रचिक्षेप तदा वेगात् कौशिकीं प्रति नारद
चिच्छेद चर्मणा सार्द्ध तदद्भुतमिवाभवत्
समाद्रवत् कोशभवां वायुवेगसमो जवे
गदया सह चिच्छेद क्षुरेप्रेण रणे ऽम्बिका
चण्डाद्य मातरो हृष्टाश्चक्रुः किलकिलाध्वनिम्
जयस्व विजयेत्यूचुर्हृष्टाः शत्रौ निपातिते
पुष्पवृष्टिं च मुमुचुः सुराः कात्यायनीं प्रति
वृन्दारकं समारुह्य पाशपाणिः समभ्यगात्
जग्रा ह चतुरो वाणांश्चन्द्रार्धाकरवर्चसः
द्वाभ्यां कुम्भे जघानाथ हसन्ती लीलयाम्बिका
शक्रवज्रसमाक्रान्तं शैलराजशिरो यथा