ब्रूहि शुम्भं निशुम्भं च यदि जीवितुमिच्छथ
वासवो लभतां स्वर्गं देवाः सन्तु गतव्यथा
नोचेद् बलावलेपेन भवन्तो योद्धुमिच्छथ
यतस्तु सा शिवं दौत्ये न्ययोजयत् नारद
हुङ्कृत्वाभ्यद्रवन् सर्वे यत्र कात्यायनी स्थिता
प्रासैः सुनीक्ष्णैः परिघैश्च विस्तृतैर्ववर्षतुदैत्यवरौ सुरेश्वरीम्
जघान चान्यात् रणचण्डविक्रमा महासुरान् बाणशतैर्महेश्वरी
महाजलक्षेपहतप्रभावान् ब्राह्मी तथान्यानसुरांश्चकार
शक्त्या कुमारी कुलिशेन चैन्द्री तुण्डेन चक्रेण वराहरूपिणी
रुद्रस्त्रिशूलेन तथैव चान्यान् विनायकश्चापि परश्वधेन
पेतुः पृथिव्यां भुवि चापि भूतैस्ते भक्ष्यमाणाः प्रलयं प्रजग्मुः
विमुक्तकेशास्तरलेक्षणा भयात् ते रक्तबीजं शरणं हि जग्मुः
विद्रावयन् भूतगणान् समन्ताद् विवेश कोपात् स्फुरिताधरश्च
यो रक्तबिन्दुर्न्यपतत् पृथिव्यां स तत्प्रमाणस्त्वसुरो ऽपि जज्ञे
पिबस्व चण्डे रुधिरं त्वरातेर्वितत्य वक्त्रं वडवानलाभम्
ओष्ठं नभस्पृक् पृथिवीं स्पूशन्तं कृत्वाधरं तिष्ठति चर्ममुण्डा
बिभेद शूलेन तथाप्युरस्तः क्षतोद्भवान्ये न्यपतंश्च वक्त्रे
तं हीनवीर्यं शतधा चकार चक्रेण चामीकरभूषितेन
हा तात ह भ्रातरिति ब्रुवन्तः क्त यासि तिष्ठस्व मुहूर्त्तमेहि
निपातिता धरणितले मृडान्या प्रदुद्रुवुर्गिरिवरमुह्य दैत्याः
विशीर्मचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम
संस्तम्भमोहज्वरपीडिते ऽथ चित्रे यथासौ लिखितो बभूव
अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन
प्रोवाच चिन्तयित्वाथ वचनं वदतां वरः
शतधा यास्यते भीरु आमपात्रमिवाम्भसि
करोमि बुद्धि तस्मात् त्वं मां भजस्वायतेक्षणे
निवर्त्तय मतिं युद्धाद् भार्या मे भव साम्प्रतम्
विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत्
भवान् यदिह भार्यार्थो ततो मां जय संयुगे
प्रचिक्षेप तदा वेगात् कौशिकीं प्रति नारद