सा ददर्श तदा पौण्ड्रं महिषं वै मस्य च
तं प्रगृह्य करेणैव दानवावन्वगाज्जवात्
वेगेनाबिसृता सा च रासभेन महेश्वरी
कर्कोटकं स दृष्ट्वा ऊर्ध्वरोमा व्यजायत
न्यपतंस्तस्य पत्राणि रौद्राणि हि पतत्त्रिणः
वेगेनानुसरद् देवी चण्डमुण्डौ भयातुरौ
बद्धौ कर्कोटकेनैव बद्ध्वा विन्ध्यमुपागमत्
शिरोभिर्दानवेन्द्राणां तार्क्ष्यपत्रैश्च शोभनैः
घर्घरां च मृगेन्द्रस्य चर्मणः सा समार्पयत्
आत्मना सा पपौ पानं रुधिरं दानवेष्वपि
चकार कुपिता दुर्गा विशिरस्कौ महासुरौ
कृत्वा जगाम कौशिक्याः सकाशं मार्यया सह
ग्रथितो दैत्यशीर्षाभ्यां नागराजेन वेष्टितः
बबन्ध प्राह चैवैनां कृतं कर्म सुदारुणम्
तस्माल्लोके तव ख्यातिश्चामुण्डेति भविष्यति
दिग्वाससं चाभ्यवदत् प्रतीता निषूदय खारिबलान्यमूनि
निषूदयन्ती रिपुसैन्यमुग्रं चचार चान्यानसुरांश्चखाद
निपात्यमाना दनुपुङ्गवास्ते ककुद्मिनं शुम्भमुपाश्रयन्त
अक्षौहिणीनां त्रिंशद्भिः कोटिभिः परिवारितम्
मुमोच सिंहनादं वै ताभ्यां सह महेश्वरी
हंसयुक्तविमानस्था साक्षसूत्रकमण्डलुः
महाहिवलया रौद्रा जाता कुण्डलिनी क्षणात्
समुद्भूता च देवर्षे मयूरवरवाहना
शार्ङ्गबाणधरा जाता वैष्णवी रूपशालिनी
वाराही पृष्ठतो जाता शेषनागोपरि श्थिता
जाता गजेन्द्रपष्ठस्था माहेन्द्री स्तनमण्डलात्
नखिनी हृदयाज्जाता नारसिंही सुदारुणा
तन्निनादं महच्छ्रुत्वा त्रैलोक्यप्रतिपूरकम्
अभ्येत्य वन्द्य चैवैनां प्राह वाक्यं तदाम्बिकं
तद्वाक्यसमकालं च देव्या देहोद्भवा शिवा