सापराधां यता दासीं कृत्वा शीघ्रमिहानय
स हन्तव्यो ऽविचार्यैव यदि हि स्यात् पितामहः
वृतः षड्भिर्महातेजा विन्ध्यं किरिमुपाद्रवत्
न चेद् बलान्नयिष्यामि केशाकर्षणविह्वलाम्
तत्र किं ह्यबला कुर्याद् यथेच्छसि तथा कुरु
सम्भ्यधावत् त्वरितो गदामादाय वीर्यवान्
सबलं भस्मसाच्चक्रे शुष्कमग्निरिवेन्धनम्
सबलं भस्मसान्नीतं कौशिक्या वीक्ष्य दानवम्
अथादिदेश बलिनौ चण्डमुण्डौ महासुरौ
तेषां च सैन्यमतुलं गजाश्वरथसंकुलम्
तदायान्तं रिपुबलं दृष्ट्वा कोटिशतावरम्
कांश्चित् करप्रहारेण कांश्चिदास्येन लीलया
ते वध्यमानाः सिंहेन गिरिकन्दरवासिना
तावार्त्तं स्वबलं दृष्ट्वा कोपप्रस्फुरिताधरौ
तावापतन्तौ रौद्रौ वै दृष्ट्वा क्रोधपरिप्लुता
काली करालवदना निःसृता योगिनी शुबा
संशुष्कगात्रा रुधिराप्लुताङ्गीनरेन्द्रमूर्ध्ना स्रजमुद्वहन्ती
न्यषूदयद् भृशं क्रुद्धा सरताश्वगजान् रिपून्
कुञ्जरं सह यन्त्रेण प्रतिक्षेप मुके ऽम्बिका
समं योधेन वदने क्षिप्य चर्वयते ऽम्बिका
पादेनाक्रम्य चैवान्यं प्रेषयामास मृत्यवे
रुरुर्दृष्ट्वा प्रदुद्राव तं चण्डि ददृशे स्वयम्
स पपात हतो भूम्यां छिन्नमूल इव द्रुमः
कोशमुत्कर्तयामास कर्णादिचरणान्तिकम्
एका न बन्धमगमत् तामुत्पाट्याक्षिपद् भुवि
कुष्णार्धमर्धशुक्लं च धारयन्ती स्वकं वपुः
तस्या नाम तदा चक्रे चण्डमारीति विश्रुतम्
स्वयं हि मारयिष्यामि तावानेतुं त्वमर्हसि
प्रदुद्रुवतुर्भयार्त्तौ दिशमाश्रित्य दक्षिणाम्
साधिरुह्य महावेगं रासभं गरुडोपमम्