गतवानहमद्यैव तामहं वाक्यमब्रुवम्
स त्वां प्राह महाभागे प्रभुरस्मि जगत्त्रये
रत्नानि सन्ति तावन्ति मम वेश्मनि नित्यशः
तस्माद् भजस्वमां वा त्वं नुशुम्भंवा ममानुजम्
सत्यमुक्तं त्रिलोकेशः शुम्भो रत्नार्ह एव च
यो मां विजयते युद्धे स भता स्यान्महासुर
स त्वां कथं न जयते सा त्वमुत्तिष्ठ भामिनी
मनोरथस्तु तद् गच्छ सुम्भाय त्वं निवेदय
सा चाग्निकोटिसदृशी मत्वैवं कुरु यत्क्षमम्
प्राह दूरस्थितं सुम्भो दानवं धूम्रलोचनम्
सापराधां यता दासीं कृत्वा शीघ्रमिहानय
स हन्तव्यो ऽविचार्यैव यदि हि स्यात् पितामहः
वृतः षड्भिर्महातेजा विन्ध्यं किरिमुपाद्रवत्
न चेद् बलान्नयिष्यामि केशाकर्षणविह्वलाम्
तत्र किं ह्यबला कुर्याद् यथेच्छसि तथा कुरु
सम्भ्यधावत् त्वरितो गदामादाय वीर्यवान्
सबलं भस्मसाच्चक्रे शुष्कमग्निरिवेन्धनम्
सबलं भस्मसान्नीतं कौशिक्या वीक्ष्य दानवम्
अथादिदेश बलिनौ चण्डमुण्डौ महासुरौ
तेषां च सैन्यमतुलं गजाश्वरथसंकुलम्
तदायान्तं रिपुबलं दृष्ट्वा कोटिशतावरम्
कांश्चित् करप्रहारेण कांश्चिदास्येन लीलया
ते वध्यमानाः सिंहेन गिरिकन्दरवासिना
तावार्त्तं स्वबलं दृष्ट्वा कोपप्रस्फुरिताधरौ
तावापतन्तौ रौद्रौ वै दृष्ट्वा क्रोधपरिप्लुता
काली करालवदना निःसृता योगिनी शुबा
संशुष्कगात्रा रुधिराप्लुताङ्गीनरेन्द्रमूर्ध्ना स्रजमुद्वहन्ती
न्यषूदयद् भृशं क्रुद्धा सरताश्वगजान् रिपून्
कुञ्जरं सह यन्त्रेण प्रतिक्षेप मुके ऽम्बिका
समं योधेन वदने क्षिप्य चर्वयते ऽम्बिका