तस्याः पुत्रत्रयं चासीत् सहस्राक्षाद् बलाधिकम्
तृतीयो नमुचिर्नाम महाबलसमन्वितः
तं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे
प्रविवेश रथं भानोस्ततो नाशकदच्युतः
अवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद
संत्यज्य भास्कररथं पातालमुपयादथ
ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत्
अयं स्पृशतु मां फेनः पराभ्यां गृह्य दानवः
तस्मिञ्छक्रो ऽजद् वज्रमन्तर्हितमपीश्वरः
समये च तथा नष्टे ब्रह्महत्यास्पृशद्धरिम्
ततो ऽस्य भ्रातरौ वीरौ क्रुद्धौ सुम्भनिशुम्भकौ
सुरास्ते ऽपि सहस्राक्षं पुरस्कृत्य विनिर्ययुः
शक्रस्याहृत्य च गजं याम्यं च महिषं बलात्
निधनः पद्मशङ्खाद्या हृतास्त्वाक्रम्य दानवैः
तदाजग्मुर्महीपृष्ठं ददृशुस्ते महासुरम्
स चाह दैत्यो ऽस्मि विभो सचिवो महिषस्य तु
अमात्यौ रुचिरौ वीरौ चण्डमुण्डाविति श्रुतौ
यस्त्वासीत् प्रभूरस्माकं महिषो नाम दानवः
किंवीर्यौ किंप्रभावौ च एतच्छंसितुमर्हथः
निशुम्भो ऽयं मम भ्राता कनीयान् शत्रुपूगहा
समेत्य निर्जिता वीरा ये ऽन्ये च बलवत्तराः
यावत्तां घातयिष्यावः स्वसैन्यपरिवारितौ
जलवासाद् विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ
ऊचतुर्वचनं श्लक्ष्णं को ऽयं तव पुरस्सरः
कनीयानस्य च भ्राता द्वितीयो हि निशुम्भकः
अहं विवाहयिष्यामि रत्नभूतां जगत्त्रये
यः प्रभुः स्यात्स रत्नार्हस्तस्माच्छुम्भाय योज्यताम्
भूयो ऽपि तद्विधां जातां कौशिकीं रूपशालिनीम्
दैत्यं च प्रेषयामास सकाशं विन्ध्यवासिनीम्
निशुम्भशुम्बावाहेदं मन्युनाबिपरिप्लुतः