तस्थावष्टभुनजो भूत्वा नानायुधधरो ऽव्ययः
चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम्
ववर्ष मार्गणास्तीक्ष्णान् यथा प्रावृषि तोयदः
रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः
दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने
इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि
यक्षाः किंपुरुषाश्चैव खगाश्क्रधरास्तथा
सोमवंशोद्भवश्चोग्रो भोजकीर्तिर्महाभुजः
ते सर्वे ऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः
अभिदुद्राव वेगेन सर्वानेव शरोत्करैः
गणेशो ऽपि वरास्त्रैस्तान् प्रचिच्छेद बिभेद च
वीरभद्रेण देवाद्या अवहारमर्कुत
जुह्वाना ऋषयो यत्र हवींषि प्रवितन्वते
भीता होत्रं परित्यज्य जग्मुः शरणमच्युतम्
न भेतव्यमितीत्युक्त्वा समुत्तस्थौ वरायुधः
मुमोच वीरभद्राय कायावरणदारणान्
निपेतुर्भुवि भग्नाशा नास्तिकादिव याचकाः
दिव्यैरस्त्रैर्वीरभद्रं प्रच्छादयितुमुद्यतः
वारयामास शूलेन गदया मार्गणैस्तथा
त्रिशुलेन समाहत्य पातयामास भूतले
लाङ्गलं च गणेशो ऽपि गदया प्रत्यवारयत्
वीरभद्राय चिक्षेप चक्रं क्रोधात् खगध्वजः
शूलं परित्यज्य जगार चक्रं यथा मधुं मीनवपुः सुरेन्द्रः
मुरारिरभ्येत्य गणाधिपेन्द्रमुत्क्षिप्य वेगाद् भुवि निष्पिपपेष
सहितं रुधिरोद्गारैर्मुकाच्चक्रं विनिगतम्
समादाय हृषीकेशो वीरभद्रो मुमोच ह
गत्वा निवेदयामास वासुदेवात्पराजयम्
निश्वसन्तं यथा नागं क्रोधं चक्रे तदाव्ययः
पूर्वोद्दिष्टे तदा स्थाने सायुधस्तु निवेशितः
विवेश क्रोधताम्राक्षो यज्ञवाटं त्रिशूलभृत्