असीदन्त यथा मग्नाः पङ्के वृन्दारका इव
प्रोवाच मुञ्च तेजस्त्वं प्रतीच्छाम्येष शङ्कर
जलं तृषानते वै यद्वत् तैलपानं पिपासितः
स्वस्थाः सुराः समामन्त्र्य हरं जग्मुस्त्रिविष्टपम्
समभ्येत्य महादेवीमिदं वचनमब्रवीत्
नीतः प्रोक्तो निषिद्धस्तु पुत्रोत्पत्तिं तवोदरात्
शशाप दैवतान् सर्वान् नष्टपुत्रोद्भवा शिवा
तस्मात् ते न जनष्यन्तिस्वासुयोषित्सु पुत्रकान्
आहूय मालिनीं स्वनातुं मतिं चक्रे तपोधना
तत्स्वेदं पार्वती चैव मेने कीदृग्गुणेन हि
तस्यां गतायां शैलेयी मलाच्चक्रे गजाननम्
कृत्वोत्ससर्ज भूम्यां च स्थिता भद्रासने पुनः
ईषद्धासामुमा दृष्ट्वा मालिनीं प्राह नारद
साथोवाच हसाम्येवं भवत्यास्तनयः किल
तच्छुत्वा मम हासो ऽयं संजातो ऽद्य कृशोदरि
एतच्छ्रुत्वा वचो देवी सस्नौ तत्र विधानतः
ततः शंभुः समागत्य तस्मिन् भद्रासने त्वपि
उमास्वेदं भवस्वेदं जलभूतिसमन्वितम्
अपत्यं हि विदित्वा च प्रीतिमान् भुवनेश्वरः
रुद्रः स्नात्वर्च्य देवादीन् वाग्भिरद्भिः पितृनपि
समेत्य देवीं विहसन् शङ्करः शूलधृग् वः
इत्युक्ता पर्वतसुता समेत्यापस्यदद्भुतम्
ततः प्रीति गिरिसुता तं पुत्रं परिषष्वजे
नायकेन विना देवि तव भूतो ऽपि पुत्रकः
एष विघ्नसहस्राणि सुरादीनां करिष्यति
इत्येवमुक्त्वा देव्यास्तु दत्तवांस्तनयाय हि
तथा मातृगणा घोरा भूता विघ्नकराश्च ये
देवी च स्वसुतं दृष्ट्वा परां मुदमवाप च
या जघान महादैत्यै पुरा शुम्भनिशुम्भकौ
स्वर्ग्यं यशस्यं च तथाघहारि आख्यनमूर्जस्करमद्रिपुत्र्याः