भवामरारिहन्त्रीति उक्त्वा स्वर्गमुपागमत्
प्रणम्य च महेशानं स्थिता सविनयं मुने
तस्थौ व्रषसहस्रं हि महामोहनके मुने
चक्षुभुः सागराः सप्त देवाश् च भयमागमन्
प्रणम्योचुर्महेशानं जगत् क्षुब्धं तु किं त्विदम्
तेनाक्रान्तास्त्विमे लोका जग्मुः क्षोभं दुरत्ययम्
आगच्छ शक्रर् गच्छामो यावत् तन्न समाप्यते
स नूनं देवराजस्य पदमैन्दं हरिष्यति
भयाज्ज्ञानं ततो नष्टं भाविकर्मप्रचोदनात्
जगाम मन्दरगिरिं तच्छृङ्गे न्यविशत्ततः
चिन्तयित्वा तु सुचिरं पावकं ते व्यसर्जयन्
दुष्प्रवेशं च तं मत्वा चिन्तां वह्निः परां गतः
निष्क्रामनतीं महापङ्क्तिं हंसानां विमलां तथा
वञ्चयित्वा प्रतीहारं प्रविवेश हराजिरम्
प्राह प्रहस्य गम्भीरं देवा द्वारि स्थिता इति
विनिष्क्रन्तो ऽजिराच्छर्वो वह्निना सह नारद
शिरोभिरवनीं जग्मुः सेन्द्रार्कशशिपावकाः
प्रणामावनतानां वो दास्ये ऽहं वरमुत्तमम्
तदिदं त्यज्यतां तावन्महामैथुनमीश्वर
ममेदं तेज उद्रिक्तं कश्चिद् देवः प्रतीच्छतु
असीदन्त यथा मग्नाः पङ्के वृन्दारका इव
प्रोवाच मुञ्च तेजस्त्वं प्रतीच्छाम्येष शङ्कर
जलं तृषानते वै यद्वत् तैलपानं पिपासितः
स्वस्थाः सुराः समामन्त्र्य हरं जग्मुस्त्रिविष्टपम्
समभ्येत्य महादेवीमिदं वचनमब्रवीत्
नीतः प्रोक्तो निषिद्धस्तु पुत्रोत्पत्तिं तवोदरात्
शशाप दैवतान् सर्वान् नष्टपुत्रोद्भवा शिवा
तस्मात् ते न जनष्यन्तिस्वासुयोषित्सु पुत्रकान्
आहूय मालिनीं स्वनातुं मतिं चक्रे तपोधना
तत्स्वेदं पार्वती चैव मेने कीदृग्गुणेन हि