रेमे सहोमया रात्रिं प्रभाते पुनरुत्थितः
संपूजितः पर्वतपार्थिवेन स मन्दरं शीघ्रमुपादजगाम
विसर्ज्य भूतैः सहितो महीध्रमध्यावसन्मन्दरमष्टमूर्तिः
विश्वकर्माणमाहूय प्रोवाच कुरु मे गुहम्
योजनानि चतुःषष्टिः प्रमाणेन हिरण्मयम्
शुद्धस्फटिकसोपानं वैडूर्यकृतपरूपकम्
ततो देवपतिश्चक्रे यज्ञं गार्हस्थ्यलक्षणम्
तथा सतस्त्रिनेत्रस्य महान् कालो ऽभ्यगान्मुने
ततः कदाचिन्नर्मार्थं कालीत्युक्ता भवेन हि
वाचा दुरुक्तां बीभत्सं न प्ररोहति वाक्क्षतम्
न तान् विमुञ्चेत हि पण्डितो जनस्तमद्य धर्म वितथं त्वया कृतम्
तथा यतिष्ये यथा भवान् कालीति वक्ष्यति
अनुज्ञाता त्रिरिजा दिवमेवोत्पपात ह
टङ्कच्छिन्नं प्रयत्नेन विधात्रा निर्मितं तथा
जयन्तीं च महापुण्यां चतुर्थोमपराजिताम्
अनुज्ञातास्तथा देव्या शुश्रूषां चक्रिरे शुभाः
समाजगाम तं देशं व्याघ्रो दंष्ट्रानखायुधः
यदा पतिष्यते चेयं तदादास्यामि वै अहम्
पश्यमानस्तु वदनमेकदृष्टिरजायत
तपो ऽवर्षशतं देवी गृणन्ती ब्रह्म त्रिभुवनेश्वरः
तपसा धूतपापासि वरं वृणु यथेप्सितम्
वरदो भव तेनाहं यास्ये प्रीतिमनुत्तमाम्
गाणपत्यं विभौ भक्तिमजेयत्वं च धर्मिताम्
वृणीष्व वरमव्यग्रा वरं दास्ये तवाम्बिके
वरः प्रदीयतां मह्यं वर्णं कनकसंनिभम्
कोशं कृष्णं परित्यज्य पद्मकिञ्जल्कसन्निभाः
प्रोवाच गिरिजां देवो वाक्यं स्वार्थाय वासवः
त्वत्कोशसंभवा चेयं कौशिकी कौशिको ऽप्यहम्
सहस्राक्षो ऽपि तां गृह्य विन्ध्यं वेगाज्जगाम च
पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी