स्थाने तपो दुश्चरमम्बिकायाश्चीर्णं महानेष सुरस्तु शंभुः
क्रतोः क्षयी दक्षविनाशकर्ता भगाक्षिहा शूलधरः पिनाकी
महाहिहाराङ्कितकुण्डलाय नमो नमः पार्वतिवल्लभाय
अग्रस्थेनाग्रजेन प्रमुदितमनसा विष्णुना चानुगेन वैवाहीं मङ्गलाढ्यां हुतवहमुदितामारुरोहाथ वेदीम्
व्याकुल्यं समुपागताश्च गिरयः पूजादिना देवताः प्रायोव्याकुलिता भवन्ति सुहृदः कन्याविवाहोत्सुकाः
भ्रात्रा सुनाबेन तदोत्सवे कृते सा शङ्कराभ्याशमथोपपादिता
पस्यन्ति देवो ऽपि समं कुशाङ्ग्या लोकानुजुष्टं पदमाससाद
मुक्तादामैः प्रकामं हरगिरितनया क्रीडनार्थं तदाघ्यनत् पश्चात्सिन्दूरपुञ्जैरविरतविततैश् चक्रतुः क्ष्मां सुरक्ताम्
आगच्छद् दक्षिणां वेदिमृषिभिः सेवितां दृढाम्
पवित्रपाणिरादाय मधुपर्कमथोज्ज्वलम्
सप्तर्षिकांश्च शैलन्द्रः सूपविष्टो ऽवलोकयन्
प्रोवाच वचनं श्रीमान् धर्मसाधनमात्मनः
पितॄणामपि दौहित्रीं प्रतीच्छेमां मयोद्यताम्
प्रादात् प्रतीच्छ भगवन् इदमुच्चैरुदीरयन्
निराश्रयो ऽहं किरिशृङ्गवासी सुतां प्रतीच्छासि तवाद्रिराज
सा चापि संस्पर्शमवाप्य शंभोः परां मुदं लब्धवती सुरर्षे
दत्त्वा च लाजान् कलमस्य शुक्लांस्ततो विरिञ्चो गिरिजामुवाच
समदृष्टिः स्थिरा भूत्वा कुरुष्वाग्नेः प्रदक्षिणम्
यथार्करश्मिसंतप्ता प्राप्य वृष्टिमिवावनिः
लज्जया सापि दृष्टेति शनैर्ब्रह्माणमब्रवीत्
कृतो लाजाश्च हविषा समं क्षिप्ता हुताशने
किं याचसि च दास्यामि मुञ्चस्वेति हरो ऽब्रवीत्
सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यसि
सौभाग्यं निजगोत्रीयं यो ऽस्यास्तं शृणु वच्मि ते
एतदीयो हि सौभाग्यो दत्तो ऽस्मद्गोत्रमेव हि
मालिनी निजगोत्रस्य शुभचारित्रमालिनी
तदा कालीमुखं ब्रह्म ददर्श शशिनो ऽधिकम्
तच्छुक्रं बालुकायां च खिलीचक्रे ससाध्वसः
अमी महर्षयो धन्या वालखिल्याः पितामह
अष्टाशीतिसहस्राणि वालखिल्या इति स्मृताः