यता वने सर्ज्जकदम्बमध्ये प्ररोहमूलो ऽथ वनस्पतिर्वै
अथोत्थाय हरिं भक्त्या परिष्वज्य न्यपीडयत्
आलोक्यान्यान् सुरगणान् संभावयत् स शङ्करः
शैवाः पाशुपताद्याश्च विविशुर्मन्दरालम्
जगाम भगवान् शर्वः कर्तुं वैवाहिकं विधिम्
सुरभिः सुरसा चान्याश्चक्रर्मण्डनमाकुलाः
सिंहाजिनी चालिनीलभुजङ्गकृतकुण्डलः
समुन्नातजटाभारो वृषभस्थो विराजते
देवाश्च पृष्ठतो जग्मुर्हुताशनपुरोगमाः
प्रयाति देवपार्श्वस्थो हंसेन च पितामहः
धारयामास विततं शच्या सह सहस्रदृक्
श्वेतं प्रगृह्य हस्तेन कच्छपे संस्थिता ययौ
सरस्वती सरिच्छ्रेष्ठा गजारूढा समादधे
पञ्चवर्णं महेशानं जग्मुस्ते कामचारिणः
अनुलेपनमादाय ययौ तत्र पृथूदकः
अनुजग्मुर्महादेवं वादयन्तश् च किन्नराः
गन्धर्वा यान्ति देवेशं त्रिनेत्रं शूलपाणिनम्
द्वादशैवादितेयानामष्टौ कोट्यो वसुनपि
चतुर्विशत् तथा जग्मुरृषीणामूर्ध्वरेतसाम्
अनुजग्मुर्महेशानं विवाहाय समाकुलाः
संप्राप्तास्त्वागमन् शैलाः कुञ्जरस्थाः समन्ततः
शैलाः प्रणेमुरीशानं ततो ऽसौ मुदितो ऽभवत्
नन्दिना दर्शिते मार्गे शैलराजपुरं महत्
निजं कर्म परित्यज्य दर्शनव्यापृताभवन्
केशपाशं द्वितीयेन शङ्कराभिमुखी गता
अनलक्तकमेकं हि हरं द्रष्टुमुपागता
साञ्जनां च प्रगृह्यान्या शलाकां सुष्ठु धावति
उन्मत्तेवागमन्नग्ना हरदर्शनलालासा
अनिन्दत रुषा बाला यौवनं स्वं कृशोदरी
जगाम वृषभारूढो दिव्यं श्वशुरमन्दिरम्