सर्वान् ज्ञातीन् समाभाष्य विवेश ससुता ततः
उवाच वाक्यं वाक्यज्ञः सर्वानाभाष्य सुस्वरम्
महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै
नोल्लङ्घ्य युष्मान् दास्यामि तत्क्षमं वक्तुमर्हथ
सर्व एवाब्रुवन् वाक्यं स्थिताः स्वेष्वासनेषु ते
दीयतां शैल कालीयं जामाताभिमतो हि नः
पितृनाराध्य देवैस्तैर्दत्तानेनैव हेतुना
स हनिष्यति दैत्यैन्द्रं महिषं तारकं तथा
प्रोवाच पुत्रि दत्तासि शर्वाय त्वं मयाधुना
प्रणामं संकरवधूर्भक्तिनम्रा करोति व
लज्जमानां समाश्वास्य हरनामोदितैः शुभैः
जामित्रगुणसंयुक्तां तिथिं पुण्यां सुमङ्गलाम्
गमिष्यति च तत्रोक्तो मुहूर्त्तो मैत्रनामकः
तव पुत्र्या वयं यामस्तदनुज्ञातुमर्हसि
विसर्जयामास शनैः शैलराड् ऋषिपुङ्गवान्
आसाद्य मन्दरगिरिं भूयो ऽवन्दन्त शङ्करम्
सब्रह्यकास्त्रयो लोका द्रक्ष्यन्ति घनवाहनम्
पूजयामास विधिना अरुन्धत्या समं हरः
ते ऽप्याजग्मुर्हरं द्रष्टुं ब्रह्मविष्ण्विन्द्रभास्कराः
सस्मार नन्दिप्रमुखांश्च सवानभ्येत्य ते वन्द्य हरं निषण्णाः
यता वने सर्ज्जकदम्बमध्ये प्ररोहमूलो ऽथ वनस्पतिर्वै
अथोत्थाय हरिं भक्त्या परिष्वज्य न्यपीडयत्
आलोक्यान्यान् सुरगणान् संभावयत् स शङ्करः
शैवाः पाशुपताद्याश्च विविशुर्मन्दरालम्
जगाम भगवान् शर्वः कर्तुं वैवाहिकं विधिम्
सुरभिः सुरसा चान्याश्चक्रर्मण्डनमाकुलाः
सिंहाजिनी चालिनीलभुजङ्गकृतकुण्डलः
समुन्नातजटाभारो वृषभस्थो विराजते
देवाश्च पृष्ठतो जग्मुर्हुताशनपुरोगमाः
प्रयाति देवपार्श्वस्थो हंसेन च पितामहः