ऊचुरङ्गिरसं वृद्धं कार्यमद्रौ निवेदय
प्रत्युवाच परं वाक्यं गिरिराजं तमङ्गिराः
समागतास्त्वत्सदनमरुन्धत्या समं गिरे
शङ्करः शूलधृक् शर्वस्त्रिनेत्रो वृषवाहनः
यमीश्वरं वदन्त्येके शिवं स्थाणौ भवं हरम्
वयं तेन प्रेषिताः स्मस्त्वत्सकाशं गिरीश्वर
तां प्रार्थयति देवेशस्तां भवान् दातुमर्हति
रूपाभिजनसंपत्त्या प्राप्नोति गिरिसत्तम
तेषां माता त्वियं देवी यतः प्रोक्तः पिता हरः
कुरुष्व पादं शत्रूणां मूर्ध्नि भस्मपरिप्लुतम्
वधूः सर्वजगन्माता कुरु यच्छ्रेयसे तव
हर्षमागत्य सहसा पुनर्दैन्यमुपागता
गच्छ शैलानुपामन्त्र्य सर्वानागान्तुर्महसि
मेर्वादीन् पर्वतश्रेष्ठानाजुहाव समन्ततः
विविशुर्विस्मयाविष्टाः सौवर्णेष्वासनेषु ते
उद्दालको वारुणश्च वराहो गरुडासनः
चित्रकूटस्त्रिकूटश् च तथा मन्दरकाचलः
कैलासाद्रिर्महेन्द्रश्च निषधो ऽञ्जनपर्वतः
उविष्टाः सभायां वै प्रणिपत्य ऋषिंश्च तान्
समागच्छत कल्याणी समं पुत्रेण भामिनी
सर्वान् ज्ञातीन् समाभाष्य विवेश ससुता ततः
उवाच वाक्यं वाक्यज्ञः सर्वानाभाष्य सुस्वरम्
महेश्वरार्थं कन्यां तु तच्चावेद्यं भवत्सु वै
नोल्लङ्घ्य युष्मान् दास्यामि तत्क्षमं वक्तुमर्हथ
सर्व एवाब्रुवन् वाक्यं स्थिताः स्वेष्वासनेषु ते
दीयतां शैल कालीयं जामाताभिमतो हि नः
पितृनाराध्य देवैस्तैर्दत्तानेनैव हेतुना
स हनिष्यति दैत्यैन्द्रं महिषं तारकं तथा
प्रोवाच पुत्रि दत्तासि शर्वाय त्वं मयाधुना
प्रणामं संकरवधूर्भक्तिनम्रा करोति व