सा मदर्थाय शैलेन्द्रो याच्यतां द्विजसत्तमाः
ओंनमः शङ्करायेति प्रोक्त्वा जग्मुर्हिमालयम्
पुरन्ध्र्यो हि पुरन्ध्रीणां गतिं धर्मस्य वे विदुः
नमस्ते रुद्र इत्युक्त्वा जगाम पतिना सह
ददृशुः शैलराजस्य पुरीं सुरपुरीमिव
सुनाभादिभिरव्यग्रैः पुज्यमानास्तु पर्वतैः
विविशुर्भवनं रम्यं हिमाद्रेर्हाटकोज्जवलम्
समासाद्य महाद्वारं संतस्थुर्द्वाःस्थकारणात्
धारयन् वै करे दण्डं पद्मरागमयं महत्
निवेदयास्मान् संप्राप्तान् महत्कार्यर्थिनो वयम्
जगाम तत्र यत्रास्ते शैलराजो ऽद्रिभिर्वृतः
दण्डं निक्षिप्य कक्षायामिदं वचनमब्रवीत्
द्वारे स्थैताः कार्यिणस्ते तव दर्शनलालसाः
स्वयमभ्यागमद् द्वारि समादायार्घ्यमुत्तमम्
उवाच वाक्यं वाक्यज्ञः कृतासनपरिग्रहान्
अप्रतर्क्यमचिन्त्यं च भवदागमनं त्विदम्
संशुद्धदेहो ऽस्मयद्यैव यद् भवन्तो ममाजिरम्
दृष्टिपूतं पदाक्रान्तं तीर्थं सारस्वतं यथा
येनार्थिनो हि ते यूयं तन्ममाज्ञातुमर्हथ
किङ्करो ऽस्मि स्थितो युष्मदाज्ञाकारी तदुच्यताम्
ऊचुरङ्गिरसं वृद्धं कार्यमद्रौ निवेदय
प्रत्युवाच परं वाक्यं गिरिराजं तमङ्गिराः
समागतास्त्वत्सदनमरुन्धत्या समं गिरे
शङ्करः शूलधृक् शर्वस्त्रिनेत्रो वृषवाहनः
यमीश्वरं वदन्त्येके शिवं स्थाणौ भवं हरम्
वयं तेन प्रेषिताः स्मस्त्वत्सकाशं गिरीश्वर
तां प्रार्थयति देवेशस्तां भवान् दातुमर्हति
रूपाभिजनसंपत्त्या प्राप्नोति गिरिसत्तम
तेषां माता त्वियं देवी यतः प्रोक्तः पिता हरः
कुरुष्व पादं शत्रूणां मूर्ध्नि भस्मपरिप्लुतम्