अलङ्कृतो वा देवेशस्तथा वाप्यनलङ्कृतः
न तथा निन्दकः पापी यथा शृण्वन् शशिप्रभे
ततो ऽत्यजद् भिक्षुरूपं स्वरूपस्थो ऽभवच्छिवः
तवार्थाय प्रहेष्यामि महर्षिन् हिमवद्गृहे
असौ भद्रेश्वरेत्येवं ख्यातो लोके भविष्यति
पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः
जगामाम्बरमाविश्य स्वमेव भवनं पितुः
पृथूदकं जगामाथ स्नानं चक्रे विधानतः
कृत्वा सनन्दिः सगणः सवाहनो महागिरिं मन्दरमाजगाम
चक्रे दिव्यफलैर्जलेन शुचिना मूलैश्च कन्दादिभिः पूजां सर्वगणेश्वरैः सह विभोरद्रिस्त्रिनेत्रस्य तु
सस्मार च महर्षिस्तु अरुन्धत्या समं ततः
समाजग्मुर्महाशैलं मन्दरं चारुकन्दरम्
अभ्युत्थायाभिपूज्यैतानिदं वचनमब्रवीत्
धूतपापस्तथा जातो भवतां पादपङ्कजैः
शिलासु पद्मवार्णासु श्लक्ष्णासु च मृदुष्वपि
सममेव त्वरुन्धत्या विविशुः शैलसानुनि
अर्घ्यादिना समभ्यर्च्य स्थितः प्रयतमानसः
आत्मनो यशसो वृद्ध्यै सप्तर्षीन् विनयान्वितान्
भरद्वाज शृणुष्व त्वमङ्गिरस्त्वं शृणुष्व च
उत्ससर्ज सती प्राणान् योगदृष्ट्य पुरा किलः
सा मदर्थाय शैलेन्द्रो याच्यतां द्विजसत्तमाः
ओंनमः शङ्करायेति प्रोक्त्वा जग्मुर्हिमालयम्
पुरन्ध्र्यो हि पुरन्ध्रीणां गतिं धर्मस्य वे विदुः
नमस्ते रुद्र इत्युक्त्वा जगाम पतिना सह
ददृशुः शैलराजस्य पुरीं सुरपुरीमिव
सुनाभादिभिरव्यग्रैः पुज्यमानास्तु पर्वतैः
विविशुर्भवनं रम्यं हिमाद्रेर्हाटकोज्जवलम्
समासाद्य महाद्वारं संतस्थुर्द्वाःस्थकारणात्
धारयन् वै करे दण्डं पद्मरागमयं महत्
निवेदयास्मान् संप्राप्तान् महत्कार्यर्थिनो वयम्