अहं समागता द्रष्टुं त्वां तत्र गमनोत्सुका
नामन्त्रितासि तातेन उताहोस्विद् व्रजिष्यसि
मातृष्वसः शशाङ्कश्च सपत्नीको गतः क्रतुम्
निमन्त्रिताः क्रतौ सर्वे किं नासि त्वं निमन्त्रिता
मन्युनाभिप्लुता ब्रह्मन् पञ्चत्वमगमत् ततः
मुञ्चती वारि नेत्राभ्यां सस्वरं विललाप ह
आः किमेतदितीत्युक्त्वा जयाभ्याशमुपागतः
कृत्तां परशुना भूमौ श्लथाङ्गीं पतितां सतीम्
किमियं पतिता भूमौ निकृत्तेव लता सती
श्रत्वा मखस्था दक्षस्य भगिन्यः पतिभिः सह
मातृष्वसा विपन्नेयमन्तर्दुःखेन दह्यती
क्रुद्धस्य सर्वगात्रेभ्यो निश्चेरुः सहसार्चिषः
गणाः सिंहमुखा जाता वीरभद्रपुरोगमाः
गतः कनखलं तस्माद् यत्र दक्षो ऽयजत् क्रतुम्
दिशि प्रतीच्युत्तरायां तस्थौ शूलधरो मुने
मध्ये त्रिरशूलधृक् शर्वस्तस्थौ क्रोधान्महामुने
ऋषयो यक्षगन्धर्वाः किमिदं त्वित्यचिन्तयन्
द्वारपालस्तदा धर्मो वीरभद्रमुपाद्रवत्
करेणैकेन जग्राह त्रिशुलं वह्निसन्निभम्
चतुर्थेन गदां गृह्य धर्ममभ्यद्रवद् गणः
तस्थावष्टभुनजो भूत्वा नानायुधधरो ऽव्ययः
चापमार्गणभृत्तस्थौ हन्तुकामो गणेश्वरम्
ववर्ष मार्गणास्तीक्ष्णान् यथा प्रावृषि तोयदः
रुधिरारुणसिक्ताङ्गौ किंशुकाविव रेजतुः
दृष्ट्वा तु सहसा देवा उत्तस्थुः सायुधा मुने
इन्द्राद्या द्वादशादित्या रुद्रास्त्वेकादशैव हि
यक्षाः किंपुरुषाश्चैव खगाश्क्रधरास्तथा
सोमवंशोद्भवश्चोग्रो भोजकीर्तिर्महाभुजः
ते सर्वे ऽभ्यद्रवन् रौद्रं वीरभद्रमुदायुधाः
अभिदुद्राव वेगेन सर्वानेव शरोत्करैः