प्रत्याश्रमं पर्यटन् स तं काल्याश्रममागतः
पूजयित्वा यथान्यायं पर्यपृच्छदिदं ततः
क्व च त्वं प्रतिगन्तासि मम शीघ्रं निवेदय
अथातस्तीर्थयात्रायां गमिष्यामि पृथूदकम्
पथि स्नानेन च फलं केषु किं लब्दवानसि
ततो ऽथ तीर्थे कुब्जाम्रे जयन्ते चण्डिकेश्वरे
सरस्वत्यामग्निकुण्डे भद्रायां तु त्रिविष्टपे
निथ्कामेन कृतं स्नानं ततो ऽभ्यागां तवाश्रमम्
पृच्छामि यदहं त्वां वै तत्र न क्रोद्धुमर्हसि
बाल्ये ऽपि संयततनुस्तत्तु श्लाघ्यं द्विजन्मनाम्
तपः समाश्रिता भीरु संशयः प्रतिभाति मे
सुभोगा भोगिताः काले व्रजन्ति स्थिरयौवने
रूपाभिजनमैश्वर्यं तच्च ते विद्यते बहु
चीनांशुकं परित्यज्य किं त्वं वल्कलधारिणी
भिक्षवे कथयामास यथावत् सा हि नारद
तं शृणुष्व त्वियं काली हरं भर्तारमिच्छति
विहस्य च महाहासं भिक्षुराह वचस्त्विदम्
कथं करः पल्लवकोमलस्ते समेष्यते शार्वकरं ससर्पम्
त्वं चन्दनाक्ता स भस्मभूषितो न युक्तरूपं प्रतिभाति मे त्विदम्
मा मैवं वद बिक्षो त्वं हरः सर्वगुणाधिकः
अलङ्कृतो वा देवेशस्तथा वाप्यनलङ्कृतः
न तथा निन्दकः पापी यथा शृण्वन् शशिप्रभे
ततो ऽत्यजद् भिक्षुरूपं स्वरूपस्थो ऽभवच्छिवः
तवार्थाय प्रहेष्यामि महर्षिन् हिमवद्गृहे
असौ भद्रेश्वरेत्येवं ख्यातो लोके भविष्यति
पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः
जगामाम्बरमाविश्य स्वमेव भवनं पितुः
पृथूदकं जगामाथ स्नानं चक्रे विधानतः
कृत्वा सनन्दिः सगणः सवाहनो महागिरिं मन्दरमाजगाम
चक्रे दिव्यफलैर्जलेन शुचिना मूलैश्च कन्दादिभिः पूजां सर्वगणेश्वरैः सह विभोरद्रिस्त्रिनेत्रस्य तु